________________
हरिवंशपुराणं ।
षष्टितमः सर्गः । चत्वारिंशत्सहस्राणि नमः पंचोत्तराणि ताः। चत्वारिंशत्सहस्राणि नेमेः सदसि ताः स्मृताः॥४३९॥ अष्टात्रिंशत्सहस्राणि त्रयोविंशस्य संसदि । पंचत्रिंशत्सहस्राणि चतुर्विंशस्य सम्मताः ॥४४०॥ तिस्रोष्टानां पृथग्लक्षा जिनानां श्रावकाः स्मृताः । द्वेलक्षे च ततोऽष्टानां लक्षाष्टानां मता ततः ।४४१। पंचलक्षास्तथाष्टानां संसदि श्राविकाः स्मृताः। चतस्रस्तास्ततोष्टानां तिस्रोष्टानां जिनेशिनां ।४४२। सिद्धाः षष्टिसहस्राणि नवशत्या वृषस्य ते । सप्तसप्ततिरन्यस्य सहस्राणि शतान्विताः॥४४३॥ शिक्षा लक्षा तृतीयस्य सहस्राणि च सप्ततिः । शतं चातः शतं लक्षे सहाशीतिसहस्रकैः ॥४४४॥ तिस्रो लक्षाः सहस्रं च षट्शतानि ततस्ततः । त्रयोदशसहस्राणि तिस्रो लक्षाश्च षट्शती ॥४४५।। पंचाशीतिसहस्राणि द्वे लक्षे षट्शती ततः । चतुस्त्रिंशत्सहस्राणि द्वे लक्षे च ततः परं ॥४४६॥ लक्षैकेन विनाशीतिः सहस्राण्यपि षट्शती । ततोऽशीतिसहस्राणि षट्शतानि च निवृताः॥४४७॥ पंचषष्टिसहस्राणि श्रेयसः षट्शती यथा । चतुः पंचाशदेव स्यात्सहस्राण्यपि षट्शती ॥४८॥ सहस्राण्येकपंचाशत् त्रिशती विमलस्य तु । अनंतस्यापि तावंति सहस्राण्येव केवलं ॥४४९॥ धर्मस्यैकानपंचाशत सहस्री सप्तशत्यपि । चत्वारिंशत्ततोष्टौ च सहस्राणि चतुःशती ॥४५०॥ चत्वारिंशत्स हस्राणि षट् चाष्टौ च शतान्यतः । सप्तत्रिंशत्सहस्राणि द्विशत्यारजिनस्य तु ॥४५१॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org