________________
७३८
हरिवंशपुराणं।
षष्टितमः सर्गः । अष्टशत्या सहस्त्राणि ततोष्टाविंशतिस्तथा । एकानविंशतिस्तस्मात्सहस्राणि शतद्वयं ॥४५२॥ नमेनव सहस्राणि षट् शतानि च निर्वृताः । नेमेरष्टौ सहस्राणि षट् सप्त द्वेशते द्वयोः ॥४५३॥ यदैव केवलोत्पत्तिः षोडशानां जिनेशिनां । तदैव तेषां शिष्याणां सिद्धिः केषांचिदिष्यते ॥४५४॥ एकद्वित्रिकषण्मासैरन्येषां शिष्यनिर्वृत्तिः । एक-द्वि-त्रिचतुर्वरैंरपरेषां विनिश्चिता ॥४५५॥ त्रिविंशतिसहस्राणि पंचानां द्वादशैव तु । तान्येकादश पंचानां पंचानां दश तान्यतः ॥४५६॥ अष्टाशीति शतान्येव शिष्याः पंचजिनेशिनां । षट् सहस्राणि वीरस्य शिष्यास्तेनुत्तरोद्भवाः ॥४५७॥ ऊर्ध्वग्रेवेयकांतासु सौधर्मादिषु भूमिषु । शतं त्रीणि सहस्राणि बभूवुषशिष्यकाः ॥ ४५८ ॥ एकान्तत्रिसहस्राणि द्वितीयस्य दिवं गताः । नवान्यस्य सहस्राणि शिष्या नवशतीयुताः॥४५९॥ नवशत्या सहस्राणि तुरीयस्य तु सप्त वै । ततश्चतुःशतीयुक्ता षट्सहस्री दिवंगता ॥४६०॥ ततश्चतुःसहस्राणि चतुःशत्यान्वितानि तु । द्विसहस्त्री चतुःशत्यातः सहस्रचतुष्टयी ॥४६१॥ ततो नव सहस्राणि सहितानि चतुःशतैः । ततोष्टौ सप्त षडापि सहस्राणि चतुःशतैः ॥४६२॥ ततः पंचसहस्राणि सप्तशत्या ततोऽपि च । पंचैव तु सहस्राणि चत्वारि त्रिशतैस्ततः ॥४६३॥ ततस्त्रीणि सहस्राणि शतैः षड्भिस्ततः पुनः।त्रीण्येव तु सहस्राणि द्विशते च दिवंगताः ॥४६४॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org