________________
हरिवंशपुरा।
७३९
षष्टितमः सर्गः । सहस्रद्वितयं चातो द्वयोरष्ट चतु:शतैः । वे सहस्र ततोन्यस्य सहस्रं षट् शतान्यतः ॥ ४६५ ॥ द्विशत्यातः सहस्रं हि सहस्रं केवलं ततः। अष्टौ शतानि वीरस्य शिष्यास्ते स्वर्गगामिनः॥ ४६६ ॥ कोटीलक्षास्तु पंचाशस्त्रिंशद्दश नवाब्धयः । नवतिश्च सहस्राणि नवतिश्च शतान्यपि ॥ ४६७ ॥ तथा नवशतान्येव नवतिर्नवकोटयः । जिनानां वृषभादीनामंतराणि नव क्रमात् ।। ४६८ ।। षट्षष्टिवर्षलक्षामिः षड़िशतिसहस्रकैः । विहीनान्दशतेनाब्धिः कोटीदशमनंतरं ॥ ४६९ ॥ चतुःपंचाशदेवातस्त्रिंशन्नव च सागराः । चत्वारस्ते त्रयस्तूनास्त्रिचतुर्भागपल्यकैः ॥ ४७० ।। पल्या च चतुभोगो हीनकोटीसहस्रकः । कोटीसहस्रमब्दानां चतुलेक्षाः शताधेगाः ॥४७॥ पटू लक्षाः पंचलक्षाश्च त्रयोऽशीति सहस्रकैः । सार्थसप्तशतान्यतृतीये च शते मते ॥ ४७२ ॥ वर्धमानजिनेंद्रस्य सहस्राण्येकविंशतिः । तीर्थकालस्तु तावंति सहस्राण्यतिदुःषमः ॥ ४७३ ॥ आदावष्टौ तथांतेष्टावव्युच्छिन्नानि षोडश । मध्ये तु सप्ततीर्थानि व्युच्छिनानीह भारते॥४७४॥ पादः पल्यस्य पल्याधं त्रिपादी पल्यमेव तु । त्रिपाद्यधं च पादश्च व्युच्छेदानेहसः क्रमात् ।।४७५|| आदितः सप्ततीर्थेषु केवलश्रीनिरंतरा । चंद्राभस्य मुनेते सुविधेनवतौ मता ॥ ४७६ ॥ तीर्थे चतुरशीतिस्तु शीतलस्य निरंतरा । केवलज्ञानिनोन्यस्य द्वासप्ततिरुदाहृता ।। ४७७ ॥ .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org