________________
हरिवंशपुराणं ।
षष्टितमः सर्गः ।
७४०
चत्वारिंशच्चतुर्युक्ता वासुपूज्यस्य पूजिता । चतुर्हानिस्तु दशसु द्वयोः केवलिनस्त्रयः || ४७८ ॥ वीरकेवलिनां कालो द्वाषष्टचन्दानि संस्तुतः । ततो वर्षशतं पूर्ण स्याच्चतुर्दशपूर्विणां ॥ ४७९ ॥ त्रयोऽशीत्या शताब्दानि भवंति दशपूर्विणां । विंशत्यंगभृतां युक्ताः कालो वृषशतद्वयं ॥ ४८० ॥ आचारांगभूतांगीतैः शतमष्टादशोत्तरं । त्रिपंचैकादश ज्ञेया पंच चत्वार एव ते ।। ४८१ ।। वीरस्य गणिनां वर्षाण्यायुर्दानवतिश्चतुः । विंशतिः सप्ततिश्च स्यादशीतिः शतमेव च ॥४८२॥ योऽशीतिश्च नवतिः पंचभिः साष्टसप्तभिः । द्वाभ्यां च सप्तभिः षष्टिश्चत्वारिंशच्च संयुताः ॥ ४८३ ॥ षट्सु कालेषु पल्याष्टभागे शेषे तृतीयके । भूतिः कुलकराणां च ततोऽपि वृषभस्य तु ॥ ४८४ ॥ जन्मक्रमेण शेषाणां जिनानां चक्रवर्तिनां । हलिनां वासुदेवानां तुर्ये काले विनिश्चितं ॥। ४८५ ।। अष्टाष्टमासमासार्धशेषयोरिह कालयोः । तृतीयतुर्ययोः सिद्धिः प्रसिद्धा वृषवीरयोः ॥ ४८६ ॥ वीरनिर्वाणकाले च पालकोऽत्राभिषिच्यते । लोकेऽवंतिसुतो राजा प्रजानां प्रतिपालकः ||४८७ || षष्टिर्वर्षाणि तद्राज्यं ततो विषयभूभूजां । शतं च पंचपंचाशद्वर्षाणि तदुदीरितं ॥ ४८८ ॥ चत्वारिंशत्पूरूढानां भूमंडलमखंडितं । त्रिंशत्तु पुष्पमित्राणां षष्टिर्वस्वग्निमित्रयोः ॥ ४८९ ॥ १ ' शतांगीत:' इति ख पुस्तके |
।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org