________________
हरिवंशपुराणं ।
७४१
षष्टितमः सर्गः । शतं रासभराजानां नरवाहनमप्यतः । चत्वारिंशत्ततो द्वाभ्यां चत्वारिंशच्छतद्वयं ॥ ४९० ॥ भद्रवाणस्य तद्राज्यं गुप्तानां च शतद्वयं । एकविंशश्च वर्षाणि कालविद्भिरुदाहृतं ।। ४९१ ।। द्विचत्वारिंशदेवातः कल्किराजस्य राजता । ततोऽजितंजयो राजा स्यादिंद्रपुरसस्थितः ॥४९२॥ कौमार्ये मंडलेशत्वे विजये राज्यसंयमे । चक्र्यादीनां यथायोग्यमितः कालो निरूप्यते।।४९३॥ पूर्वलक्षाः कुमारेऽगुर्भरते सप्तसप्ततिः । वर्षाणां च सहस्रं तु मंडलाधिपती मतं ॥ ४९४ ॥ पष्टिवर्षसहस्राणि विजयो राज्यमूर्जितं । एकपूर्वागहीनास्तु पूर्वलक्षाः षडेव तु ।। ४९५ ॥ अंगलक्षास्त्रयोऽशीतिर्नवतिर्नवभिः सह । सहस्राणि नवान्यानि शतानि नवतिर्नव ।। ४९६ ।। वर्षलक्षास्त्रयोशीतिस्त्रिंशन्नवसहस्रकैः । चक्रिसंयमकालस्तु पूर्वलक्षैव केवलाः ॥ ४९७ ॥ पंचाशत्तु सहस्त्राणि पूर्वाणां पूर्वकालयोः । त्रिंशदब्दसहस्राणि विजयः सगरस्य तु ॥४९८॥ एकानसप्ततिलेक्षा पूर्वाणां नवतिनेव । सहस्राणि नवापीह शतानि नवतिनेव ॥ ४९९ ॥ पूर्वागप्रमितिः पूर्वा सप्ततिश्च सहस्रकैः । राज्यं लक्षास्त्रयोऽशीतिः पूर्वलक्षव संयमः ।।५०० ॥ पंचविंशतिसंख्याब्दसहस्राणि कुमारकः । मंडलेशश्च मघवान् जये दशसहस्रवान् ॥ ५०१॥
१ 'एकपूर्वविहीनास्तु । इति ख पुस्तके ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org