________________
हरिवंशपुराणं ।
७४२
1
षष्टितमः सर्गः तिस्रोस्य वर्षलक्षास्तु नवत्यब्दसहस्रकैः । राज्यं तपस्तु पंचाशत्सहस्राणि तपस्विनः ॥ ५०२ ॥ सनत्कुमारकौमार्य मंडलेशत्वमेव च । सहस्राणि तु पंचाशद्विजयो दश वोनि वै ॥ ५०३ ॥ नवत्यब्दसहस्राणि राज्यं प्राज्यमुदीरितं । वर्षलक्षास्ततस्तस्य संयमः संयमात्मनः ॥ ५०४ ॥ शांतमंडलिकत्वे तु पंचविंशतिरेव तु । सहस्राण्यष्टशत्येव विजये गदितं परं । ५०५ ।। कुंथोमंडलिकत्वे हि त्रिसहस्त्रैस्तु विंशतिः । पंचाशत्सप्तशत्यामा षट् शती विजयः पुनः ||५०६ || अरमंडलिकत्वेऽपि सहस्राण्येकविंशतिः । चतुः शतानि विजयः शेषः प्रागेव भाषितं ॥ ५०७ ॥ भौमस्य सहस्राणि पंच कौमार्यमिष्यते । विजयः पंचशत्येव प्रचंडस्य कुमंडले || ५०८ ॥ द्वादसहस्राणि तथा पंचशतानि च । बालत्वे गूढवृत्तस्य तस्य राज्यमिहोर्जितं ॥ ५०९ ॥ शतानि पंच कौमार्य तथामंडलनाथता । महापद्मस्य विजयो वर्षाणां तु शतत्रयं ।। ५१० ।। अष्टादश सहस्राणि राज्यं सप्त शतान्यपि । दशवर्षसहस्राणि संयमःसंयमार्थिनः ॥ ५११ ॥ हरिषेणस्य कौमार्य त्रिशती पंचविंशतिः । पंचाशता तु विजयस्तस्य वर्षशतं मतं । ५१२ ॥ पंचविंशतिसंख्यानि सहखाणि तथा शर्त । राज्यं च पंचसत्या पंचाशत्त्रिशती तपः ।। ५१३ ॥ १] सहस्राणि ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org