SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं। ७४३ षष्टितमः सर्गः । जयसेनस्य कौमार्य त्रिशती मंडलेशिता । विजयस्तु शतं राज्यं सहस्रं नवशत्यपि ॥ ५१४ ॥ चनुः शती तपस्तस्य ब्रह्मदचकुमारता । अष्टाविंशतिवर्षाणि षट्पंचाशत्समंडली ॥५१५॥ विजयः षोडशाब्दानि षट् शतानि तु राजता । ब्रह्मदत्तस्य विज्ञेया केशवानां तु कथ्यते ॥५१६॥ त्रिपृष्ठस्य सहस्राणि कौमार्ये पंचविंशतेः । विज्ञेयोऽब्दसहस्रं तु विजयः स्नेहवाहिनः ॥ ५१७॥ वर्षलशास्त्रयोऽशीतिसहस्राणि तु सप्ततिः । चतुर्भिरधिका तस्य राज्यं राजकराजितं ।। ५१८॥ द्विपृष्ठस्यापि कौमार्य मंडलैश्यमपि स्फुटं । सहस्राणि समाख्यातं प्रत्येकं पंचविंशतिः ॥५१९॥ विजयोन्दशतं लक्षा राज्यं तस्यैकसप्ततिः । चत्वारिंशत्सहस्राणि नवतिर्नवशत्यपि ।। ५२० ॥ द्वादशैव सहस्राणि पंचशत्या स्वयंभुवः । कौमार्य मंडलेशत्वं विजयो नवतिः पुनः ॥ ५२१॥ एकानषष्टिलक्षाश्च चतुःसप्ततिरेव च । सहस्राणि शतै राज्यं नवमिर्दश पंचकैः ॥५२२ ॥ पुरुषोत्तमकौमाय मतं सप्त शतानि तु | अशीतिर्विजयस्त्रीणि शतान्यन्दसहस्रकं ।। ५२३ ॥ मंडलेशत्वमेतद्धि त्रिंशल्लक्षा विनैककं । नवतिश्च सहस्राणि सप्तभिर्नवशत्यपि ॥ ५२४ ॥ विंशतिश्चैव वर्षाणि राज्यमत्यंतमूर्जितं । पुरुषोत्तमता भूमौ भूम्ना तस्येह विभ्रतः ॥ ५२५ ।। कौमार्य त्रिशती पंचविंशत्या शतमीरितं । मंडलैश्यं हि विजयः सप्ततिः प्रतिपादितः ॥२६॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy