________________
हरिवंशपुराणं ।
७४४
पंष्टितमः सर्गः। नवलक्षा सहस्राणि नवतिनव च स्मृता । राज्यं पुरुषसिंहस्य पंचभिः पंचशत्यपि ॥ ५२७ ॥ पंचाशता शते द्वे तु कौमार्य मंडलेशता । विजयः षष्टिवर्षाणि विजयोर्जिततेजसः ॥५२८ ॥ चत्वारिंशच वर्षाणि स्याञ्चत्वारि शतान्यपि । चतुःषष्टिसहस्राणि पुंडरीकस्य राजता ॥ ५२९॥ शते दत्तस्य कौमार्य पंचाशत्कालयोर्द्वयं । एकत्रिंशत्सहस्राणि सप्तशत्यापि राजता ॥ ५३०॥ शतं लक्ष्मणकौमार्य चत्वारिंशाद्विजेतृता । एकादशसहस्राष्टशतषष्टयन्दराजता ॥ ५३१॥ कुमारकालः कृष्णस्य षोडशाब्दानि षट्युता । पंचाशन्मंडलेशत्वं विजयोष्टाब्दकं स्फुटं ॥५३२॥ शतानि नव विंशत्या कृष्णराजस्य सम्मितिः। तथैकादश रुद्राणां कालसंख्या निरूप्यते ॥५३३॥ तीर्थे भीमावलिर्जातो वृषभस्याजितस्य तु | जितशत्रुरिति ख्यातो-रुद्राख्यः सुविधेः पुन:५३४ विश्वानलस्तु दशमे श्रेयसः सुप्रतिष्ठकः । अचलो वासुपूज्यस्य पुंडरीकस्तु वैमले ॥ ५३५ ॥ अजितंधरोऽनंतस्य धर्मस्याजितनाभिकः । पीठाख्यः शांतितीर्थेऽभूत् सुतो वीरस्य सत्यके: ५३६ भीमाबलेस्तनूत्सेधः पंचचापशतान्यतः । तान्यर्धपंचमान्येकं दशहानिस्तु पंचसु ॥ ५३७ ॥ अष्टाविंशतिरन्यस्य चतुर्विंशतिरप्यतः । सप्तैवारत्नयोत्यस्य वपुरुत्सेध इष्यते ॥ ५३८ ॥ पूर्वाण्यायुस्त्रयोशीविलक्षास्त्वेकसप्ततिः । द्वे लक्षे चैकलक्षा च लक्ष्यालक्ष्यविचक्षणैः ॥ ५३९ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org