________________
७४५
हरिवंशपुराणं ।
पष्टितमः सर्गः । लक्षाश्चतुरशीतिश्च षष्टिः पंचाशदेव च । चत्वारिंशच वर्षाणां विंशतिर्लक्षया क्रमात् ॥५४०॥ आयुरेकादशस्यापि वर्षाण्येकानसप्ततिः । अभिन्नदशपूर्वाणां रुद्राणां रौद्रकर्मणां ॥ ५४१ ॥ त्रयः कालास्तु सर्वेषां रुद्राणां क्रमशः स्थिताः । कौमारः संयमोपेतो गृहीतोज्झितसंयमः ॥५४२॥ कालस्त्रिभागशेषण चतुर्णा संयमाधिकः । समाद्वयोस्त्रयोप्यन्ये कौमाराधिक इष्यते ।। ५४३ ॥ संयमाधिक एकस्य कौमारोन्यस्य साधिकः । दशमस्यापि रुद्रस्य संयमाधिक एव सः॥५४४॥ वर्षाणि सप्त कौमार्ये विंशतिः संयमेष्टभिः । एकादशस्य रुद्रस्य चतुस्त्रिंशदसंयमे ॥ ५४५ ॥ द्वयोस्तु सप्तमी पृथ्वी पंचानां षष्ठयधिष्ठितिः। एकस्य पंचमी भूमिश्चतुर्थी तु द्वयोस्ततः ॥५४६।। तृतीयांत्यस्य निर्दिष्टा यथोद्दिष्टा इमाःपुनः । तुर्यसंयमभाराणां रुद्राणां जन्मभूमयः ॥ ५४७ ॥ भीमश्चाथ महाभीमो रुद्रनामा तृतीयकः । महारुद्रोऽथ कालश्च महाकालश्चतुर्मुखः ॥ ५४८ ॥ नरवक्रोन्मुखाख्यौ द्वौ नवैते नारदा स्मृताः । वासुदेवसमानायुः स्थितिस्तेषां प्रजायते ॥५४९॥ कलहे प्रीतिसंयुक्ताः कदाचिद्धर्मवत्सलाः । हिंसानंदवशास्त्वेते महाभव्या जिनानुगाः।।५५०॥ वर्षाणां षदशतीं त्यक्त्वा पंचाग्रं मासपंचकं । मुक्तिं गते महावीरे शकराजस्ततोऽभवत् ॥५५१॥ मुक्किंगते महावीरे प्रतिवर्षसहस्रकं । एकैको जायते कल्की जिनधर्मविरोधकः ॥ ५५२ ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org