________________
७४६
हरिवंशपुराणं।
षष्टितमः सर्गः । इहास्यामवसर्पिण्या यथा तीर्थकरादयः । उत्सपिण्यां भविष्यंत्यां भविष्यंति तथा परे ॥५५३।। भविष्यदुःखमाशेषे सहस्रपरिमाणके । चतुर्दश भविष्यंति प्रागिमे कुलकारिणः ।। ५५४ ॥ कनत्कनकसंकाशः कनकः कनकप्रभः । त्रयः कनकपूर्वाः स्युस्ते राजध्वजपुंगवाः ॥५५५।। नलिनीदलसंकाशो नलिनो नलिनप्रभः । नलिनोपपदास्त्वन्ये ते राजध्वजपुंगवाः ॥ ५५६ ॥ ततः पद्मप्रभो शेयः पद्मराजस्ततः परः । पद्मध्वजश्व बोद्धव्यः पद्मपुंगव एव च ।। ५५७ ॥ तीर्थकृच्च महापद्मः सुरदेवो जिनाधिपः । सुपार्श्वनामधेयोऽन्यो यथार्थश्च स्वयंप्रभः ।। ५५८ ॥ सवात्मभूत इत्यन्यो देवदेवः प्रभोदयः । उदकः प्रश्नकीर्तिश्च जयकीर्तिश्च सुव्रतः ॥ ५५९ ॥ अरश्च पुण्यमूर्तिश्च निष्कषायो जिनेश्वरः । विपुलो निर्मलाभिख्यश्चित्रगुप्तो परः स्मृतः ।।५६०॥ समाधिगुप्तनामान्यः स्वयंभूरनिवर्तकः । जयो विमलसंज्ञश्च दिव्यवाद इतीरितः ॥ ५६१ ॥ चरमोऽनंतवीर्योऽमी वीर्यधैर्यादिसद्गुणाः। चतुर्विंशतिसंख्याना भविष्यतीर्थकारिणः ॥५६२।। भरतो दीर्घदंतश्च जन्मदंतश्च चक्रिणः । गूढदत्तोऽपरो नाम्ना श्रीषेण इति विश्रुतः ।। ५६३ ॥ श्रीभूतिरितिभूतोन्यः श्रीकांतः पद्मनामकः । महापग्रस्तथैवान्यश्चित्रवाहनसंज्ञकः ॥ ५६४ ॥ विमुक्तमलसंपर्को नाम्ना विमलवाहनः । अरिष्टसेन इत्येते चक्रिणो द्वादशोदिताः ।।५६५॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org