SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ हरिवंशपुराणं । षष्टितमः सर्गः । नंदी च नंदिमित्रश्च नंदिनो नंदिभूतिकः । महातिबलनामानौ बलभद्रश्च सप्तमः || ५६६ । द्विपृष्ठश्च त्रिपृष्ठ वासुदेवा नवैव ते । भविष्यंत्यंजनच्छायाच्छायाछन्नदिगंतराः ।। ५६७ ।। चंद्रश्चापि महाचंद्रस्तथा चंद्रघरश्रुतिः । सिंहचंद्रो हरिचंद्रः श्रीचंद्रः पूर्णचंद्रकः ॥ ५६८ ।। सुचंद्रो बालचंद्रश्च नवैते चंद्रसमभाः । बलाः प्रतिद्विषश्चान्ये नवश्रीहरिकंठकौ ।। ५६९ ।। नीलकंठा श्वकंठौ च सुकंठशिखिकंठकौ । अश्वग्रीवहयग्रीवौ मयूरग्रीव इत्यपि ।। ५७० ।। प्रमदः सम्मदो हर्षः प्रकामः कामदो भवः । हरो मनोभवो मारः कामो रुद्रस्तथांगजः ॥ ५७१ ॥ भव्याः कतिपयैरेव तेऽपि सेत्स्यति जन्मभिः । रत्नत्रय पवित्रांगाः संतः संतो नरोत्तमाः ||५७२ || अंतर्मुहूर्तमपि लब्धविमुक्तमेकं सम्यक्त्वरत्नमचिरेण विमुक्तिहेतुः । ७४७ रत्नत्रयस्य तु पवित्रितमस्य लोके साक्षाद्भवप्रमथनस्य किमत्र वाच्यं ।। ५७३ | वाक्यं त्रिकालविषयार्थनिरूपणार्थमाकर्ण्य कर्णसुखमित्यमिनस्य भूपाः 1 कृष्णादयो हरिरविप्रमुखाश्च देवा नत्वा जिनं स्वपदमीयुरुपात्ततत्वाः || ५७४ ॥ इति “अरिष्टनेमिपुराणसंग्रहे" हरिवंशे जिनसेनाचार्यस्य कृतौ त्रिषष्टिपुरुषजिनांतरवर्णनो नाम षष्टितमः सर्गः समाप्तः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003658
Book TitleHarivanshpuranam Uttararddham
Original Sutra AuthorN/A
AuthorDarbarilal Nyayatirth
PublisherManikchand Digambar Jain Granthamala Samiti
Publication Year
Total Pages426
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy