________________
७४८
हरिवंशपुराणं ।
एकषष्टितमः सर्गः। एकषष्टितमः सर्गः। आकृतं श्रेणिकस्याथ ज्ञात्वा गणभृदग्रणीः । वृत्तं गजकुमारस्य जगादेति जगन्नुतं ॥१॥ श्रुत्वा गजकुमारोऽसौ जिनादि चरितं तथा । विमोच्य सकलान्बंधून पितृपुत्रपुरस्सरान् ॥२॥ संसारभीरुरासाद्य जिनेंद्र प्रश्रयान्वितं । गृहीत्वानुमतो दीक्षां तपः कर्तुं समुद्यतः ॥ ३॥ निरूपितास्तु याः कन्या कुमाराय गजाय ताः। प्रभावत्यादयः सर्वा निर्वेदिन्यः प्रवव्रजुः ॥४॥ कुमारश्रमणस्याथ गजस्यैकांतवर्तिनः । निशीथे प्रतिमास्थस्य सर्वद्वंद्वसहस्य सः ॥ ५॥ सोमशमा सुतात्यागक्रोधाग्निकणदीप्तितः । अदीदिपदुदाराग्निं शिरसि स्थिरचेतसः ॥६॥ दह्यमानशरीरोऽसौ शुक्लध्यानेन कर्मणां । अंतं कृत्वा ययौ मोक्षमंतकृत्केवली मुनिः ॥ ७ ॥ तस्य देहमहं चक्रुः समुपेत्य सुरासुराः । यक्षकिन्नरगंधर्वमहोरगपुरोगमाः ॥ ८ ॥ ज्ञात्वा तन्मरणं दुःखा यादवा बहवस्तथा । दशाहोश्च विहायांत्यं दीक्षिता मोक्षकांक्षिणः ॥९॥ देव्यः शिवादयो बहो देवकी रोहिणीं विना । वसुदेवस्त्रियो विष्णोः कन्याश्चापि प्रवत्रजुः ॥१०॥ ततः सुरवराभ्यार्यो नानाजनपदान् जिनः । विजहार महाभूत्या भव्यराजी प्रबोधयन् ॥११॥ उदीच्यापशार्दूलान् मध्यदेशनिवासिनः । प्राच्यानपि प्रजायुक्ता स धर्मे स्थापयन् बहून् ॥१२॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org