________________
७४९
हरिवंशपुराणं।
एकषष्टितमः सर्गः। विहृत्य चिरमीशानः पुनरागत्य पूर्ववत् । गिरौ रैवतिके तस्थौ समवस्थानमंडनः ।। १३ ॥ तत्र स्थितं जिनेंद्रं तं देवेंद्राः सांद्रतेजसः । प्राप्य नत्वा नतिं कृत्वा निजस्थानेषु सुस्थिताः॥१४॥ वसुदेवो बलः कृष्णः सांतःपुरसुहृज्जनः । द्वारिकापूजया युक्ताः प्रद्युम्नादिसुतान्वितः ॥१५॥ विभूत्या परयागत्य शैवेयमाभिवंद्य ते । आसीना:धर्मस्थाने धर्म शुश्रूषुरीश्वरात् ॥ १६ ॥ तत्र धर्मकथांतेऽसौ जिनं नत्वा हलायुधः । पप्रच्छ वस्तुचित्तस्थं करकुड्मलितालिकः ॥१७॥ नाथ वैश्रवणेनेयं निर्मिता द्वारिकापुरी । कियतानेहसांतोऽस्या कृतका हि विनश्वराः ॥ १८ ॥ निमज्जेत् स्वत एवेयं किमु कालांतरेऽबुधौ । निमित्तांतरसान्निध्ये केनचिद्भाविनास्य ते ॥१९।। स्वांतकाले निमित्तत्व को वा कृष्णस्य यास्यति ।जातानां हि समस्तानां जीवानां नियता मतिः २० संयमप्रतिपत्तिर्वा का केन कियता प्रभो | कृष्णस्नेहमहापाशबद्धचित्तस्य मेऽभवत् ॥ २१॥ इति पृष्टो जिनोगादीदृष्टाशेषपरापरः । याथातथ्यं यथाप्रश्नं यत्प्रश्नोत्तरवाद्यसौ ॥ २२ ॥ पुरीयं द्वादशे वर्षे राममयेन हेतुना । द्वीपायनकुमारेण मुनिना धक्ष्यते रुषा ॥ २३ ॥ कौशांबवनसुप्तस्य कृष्णस्य परमायुषः । प्रांते जरत्कुमारोऽपि संहारे हेतुतां ब्रजेत् ॥ २४ ॥ अनंतरस्य सानिध्ये हेतोः परिणतेर्वशात् । बाह्यो हेतुर्निमित्तं हि जगतोऽभ्युदये क्षये ॥२५॥
Jain Education International
For Private & Personal use only
www.jainelibrary.org