________________
हरिवंशपुराणं ।
७५०
एकषष्टितमः सर्गः ।
जानतो वस्तुसद्भावमतोभ्युदयनाशयोः । हर्ष भुवि विषादं च न गच्छति मनस्विनः ॥ २६ ॥ भवतोऽपि तपःप्राप्तिस्तन्निमित्तात्तदा भवेत् । भवपद्धतिभीतस्य ब्रह्मलोकोपपादिनः ॥ २७ ॥ द्वीपायनकुमारोऽसौ रोहिण्याः सोदरो यतिः । तदाकर्ण्य वचो जैनं निर्वेदी तपास स्थितः ||२८|| अवधेः पूरणायातः पूर्वदेशमुपेत्य सः । तपश्चरितुमारब्धः कषायतनुशोषणं ॥ २९ ॥ दुःखी जरत्कुमारश्च दुःखितान् भ्रातृबांधवान् । परित्यज्य गतः कापि स हरिर्यत्र नेक्ष्यते ||३०|| जरत्कुमारे प्रगते वनमेकाकिनि स्थिते । हरिः स्नेहाकुलो मेने शून्यमात्मानमात्मनि ॥ ३१ ॥ चचार मृगसामान्यं विजनो विजनं वनं । हरिः प्राणप्रियः प्राणान् प्रियान् हातुमना कचित् ३२ इतोऽपि जनमानम्य यादवा विविशुः पुरीं । आगामि दुःखसंभार चिंता संतप्तमानसाः ||३३|| घोषणां कारयांचक्रे चक्री पुरि बलान्वितः । मंद्यांगानि च मद्यानि विसृजंतामिति द्रुतं ||३४|| पिष्टकिण्वादिमद्यांगैस्ततो मद्यानि मद्यपैः । क्षिप्तानि सशिलाकुंडे कांदंब गिरिगहरे || ३५ ॥ कदंबवन कुंडेषु युक्ता कादंबरी तु या । साश्मपाकविशेषस्य हेतुत्वेनावतिष्ठते ॥ ३६ ॥ तथान्या घोषणादायि कृष्णेन हितबुद्धिना । द्वारिकायां महापुर्यां स्त्रीणां पुंसां च शृण्वतां ॥ ३७॥ पिता मे यदि वा माता सुता चांतःपुरांगना । तपस्यंतु मते जैने वारयामि न तावहं ॥ ३८ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org