________________
षष्टितमः सर्गः ।
हरिवंशपुराणं ।
७३१
स्युर्द्वादशसहस्राणि मत्या विपुलया युताः । शतानि सप्तपंचाशत्तत्संख्यावादिनोऽपि च ॥३६१॥ अजितस्य सहस्राणि त्रीणि सप्तशतानि च । पंचाशच्च सतां सेव्याः सभ्यानां पूर्वधारिणः ॥ ३६२ ॥ शिक्षकाः षट्शतैः सार्धं सहस्राण्येकविंशतिः । चतुःशत्या सहस्राणि नव सावधयो मताः || ३६३ ॥ स्युर्विंशतिसहस्राणि केवलप्तासु वैक्रियाः । ज्ञेयास्तावत्सहस्राणि पंचाशच्च चतुःशती ॥ ३६४ ॥ द्वादशैव सहस्राणि प्रत्येकं च चतुःशती । मत्या विपुलया युक्ता वादिनो हितवादिनः || ३६५ || संयमस्य सहस्रे द्वे शतं पंचाशता समं । पूज्याः पूर्वभृतो ज्ञेयाः पूर्वसद्भाववेदिनः || ३६६।। एकोनत्रिंशतालक्षो सहस्रैत्रिशतानि च । संख्याशिक्षकसाधूनां संख्याताः प्रश्रया स्मृताः ॥ ३६७॥ षट् शतानि सहस्राणि नव सावधयः स्मृताः । तथा दशसहस्राणि पंचभिः केवलाश्रिताः ।। ३६८ ।। तथैवैकोनविंशत्या सहस्रैरष्टभिः शतैः । पंचाशद्वैक्रियाः प्रोक्ता विक्रियाशक्तिधारिणः ॥ ३६९ ॥
दशसहस्राणि विपुलां मतिमाश्रिताः । शताधिकानि तावंति सहस्राणि च वादिनः । ३७० | शतानि पंच तुर्यस्य द्वे सहस्त्रेथ पूर्विणः । द्विलक्षे शिक्षकास्त्रिंशत्सहस्राण्यर्द्धितं शतं ॥ ३७१॥ शतान्यष्टौ सहस्राणि नवैवावधिवीक्षणाः । षोडशैव सहस्राणि मुनयः केवलेक्षणाः ॥ ३७२ ॥ एकानविंशतिर्ज्ञेया सहस्राणि तु वैक्रियाः । एकादशसहस्राणि पंचाशत्षट्शतानि च ॥ ३७३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org