________________
हरिवंशपुराणं।
षष्टितमः सर्गः । मंदरार्यो जयोरिष्टसेनश्चक्रायुधस्ततः । स्वयंभूः कुंथुनामा च विशाखो मल्लिसोमकौ ॥ ३४८ ॥ वरदत्तः स्वयंभूः स्यादिंद्रभूतिर्गणप्रभुः । ऋद्धिभिः सप्तभिर्युक्ताः सर्वे ते श्रुतपारगाः ॥३४९॥ वीरस्यैकस्य निष्क्रांतिस्त्रिशतैमल्लिपार्श्वयोः । षडुत्तरैः शतैः षभिर्वासुपूज्यजिनस्य तु ॥३५०॥ चतुःसहस्रसंख्यानैर्निष्क्रांतो वृषभो नृपैः । सहस्रपरिवारास्तु प्रत्येकमितरे जिनाः ॥३५१॥ चतुर्भिरधिकाशीतिः सहस्राणि वृषस्य तु । लक्षं लक्ष त्रिलक्षाश्च द्विस्त्रिलक्षाः सहस्रकैः ॥३५२॥ विंशत्या त्रिंशता युक्तास्तास्तु लक्षात्रयं ततः । साधलक्षे पुनर्लक्षे लक्षाशीतिश्चतुर्युता ॥३५३॥ सहस्रगुणिता सा तु द्वासप्ततिरपीदृशी । अष्टाषष्टिश्च षट्पष्टिश्चतुःषष्टिसहस्रकं ॥३५४॥ द्वापष्टिश्च सहस्राणि षष्टिः पंचाशदेव च । चत्वारिंशत्सहस्राणि त्रिंशदिशतिरेव तु ॥३५५॥ अष्टादशसहस्राणि षोडशापि चतुर्दश । सहस्राणि यथासंख्यं गणसंख्या जिनेशिनां ॥३५६॥ संघःसप्तविधः पूर्वधरशिक्षकभेदतः । सावधिः केवली वादी विक्रिया विपुलायुताः । ३५७।। स्युश्चत्वारि सहस्राणि तथा सप्तशतानि च । पंचाशच्च वृषस्यामी सर्वे पूर्वधरा विभोः ॥३५८॥ चतुः सहस्रगणनाः शतं पंचाशदुत्तरं । शिक्षकाः सावधिज्ञानाः सहस्राणि नव स्मृताः ॥३५९॥ विंशतिस्तु सहस्राणि पूज्याः केवलिनः सतां । सहस्राण्येव तावंति षट्शतानि च वैक्रियाः॥३६०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org