________________
अभ्युन्नतेषु-गगनमण्डलव्यापनेनोनतिमत्सु अभ्युत्थितेषु-प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु-मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीत'सफुसिएसुत्ति प्रवृत्तप्रवर्षणबिन्दुषु सस्तनितेषु-कृतमन्दमन्दध्वनिषु ध्मातेन-अग्नियोगेन यो धौतः-शोधितो रूप्यपट्टो-रजतपत्रकं स तथा अङ्को-रत्नविशेषः शङ्खचन्द्रौ-प्रतीतौ कुन्दः-पुष्पविशेषः शालिपिष्टराशि:-व्रीहि विशेपचूर्णपुञ्ज एतत्समा प्रभा येषां ते तथा तेषु, शुक्लेष्वित्यर्थः, तथा चिकुरो-रागद्रव्यविशेष एव हरितालो-वर्णकद्रव्यं भेदस्तद्गुटिकाखण्डं चम्पकसनकोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजः-प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभिः सदृशाश्च ते पद्मरजःसमप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन जपासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पश्चवर्ण भवतीति रक्तखेन विशिष्यते, जातिहिङ्गुलकेन-वर्णकद्रव्येण, स कृत्रिमोऽपि भवतीति जात्या विशेषितः, सरसकुडमेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं, तथा उरभ्रः-ऊरणः शशः-शशकस्तयो रुधिरेण-रक्तेन इन्द्रगोपको-वर्षासु कीटकविशेषस्तेन च समा प्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः, तथा बर्हिणो-मयूराः नीलं-रत्नविशेषः गुलिका-वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छंपत्रं भृङ्ग:-कीटविशेषस्तस्य पत्रं-पक्षः सासको-बीयकनामा वृक्षविशेषः अथवा सामत्ति पाठः तत्र श्यामा-प्रियङ्गुः नीलोपलनिकरः-प्रतीतः नवशिरीषकुसुमानि च नवशालं-प्रत्यग्रहरितं एतत्समप्रभेषु नीलप्रभेषु नीलवर्णेष्वित्यर्थः, तथा
जात्यं-प्रधानं यदञ्जनं-सौवीरकं भृङ्गभेदः-भृङ्गाभिधानः कीटविशेषः विदलिताङ्गारो वा रिष्ठकं-रत्नविशेषः भ्रमरावली॥ प्रतीता गवलगुलिका-महिषशृङ्गगोलिका कज्जलं-मपी तत्समप्रमेषु कृष्णेष्वित्यर्थः, स्फुरद्विद्युत्काश्च सगर्जिताश्च ये तेषु, तथा
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org