Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 478
________________ ज्ञाताधर्म १८ संसुमाज्ञाता० कथाङ्गम्. ॥२३८॥ ख्यातुं शीलं यस्य स तथा, 'अधम्माणुए' अधम् कर्त्तव्येऽनुज्ञा-अनुमोदनं यस्य सोऽधर्मानुज्ञः अधर्मानुगो वा 'अधम्म- पलोई' अधर्ममेव प्रलोकयितुं शीलं यस्यासावधर्मप्रलोकी 'अधम्मपलजणे' अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यते इत्यधर्मप्ररजनः, रलयोस्क्यमितिकृखा रस्य स्थाने लकारः, 'अधम्मसीलसमुदायारे' अधर्म एव शीलं-खभावः समुदाचारश्च यत्किञ्चनानुष्ठानं यस्य स तथा, 'अधम्मेण चेव वित्तिं कप्पेमाणे विहरति' अधर्मेण-पापेन सावद्यानुष्ठानेनैव दहनाकननिलाञ्छनादिना कर्मणा वृत्ति-वर्त्तनं कल्पयन्-कुर्वाणो विहरति-आस्ते स 'हणछिंदभिंदवियत्सए' हन-विनाशय छिन्द-द्विधा कुरु भिंद-कुंतादिना भेदं विधेहीत्येवं परानपि प्रेरयन् प्राणिनो विकृन्ततीति हनच्छिन्दभिन्दविकर्त्तकः, हनेत्यादयः | शब्दाः संस्कृतेऽपि न विरुद्धाः, अनुकरणरूपखादेषां, "लोहियपाणि' प्राणविकर्तनो (नतो) लोहितौ रक्तरक्ततया पाणी-हस्तौ यस्य स तथा, 'चंडे' चण्डः उत्कटरोपवात् , 'रुद्दे' रौद्रो निस्तुशखात , क्षुद्राक्षुद्रकर्मकारिखाव, साहसिक:-असमीक्षितकारि-| खात्, 'उकंचणवंचणमायानियडिकवडकूडसाइसंपओगबहुले' उत्कञ्चनमुत्कोचा, मुग्धं प्रति तत्प्रतिरूपदानादिकमसद्व्यवहारं कर्तुं प्रवृत्तस्स पार्श्ववर्तिविचक्षणभयात् क्षणं यत्तदकरणं तदुत्कञ्चनमित्यन्ये, वञ्चनं-प्रतारणं माया-परवचनबुद्धिः निकृतिः-बकवृत्त्या कुकुटादिकरणं अधिकोपचारकरणेन परच्छलनमित्यन्ये मायाप्रच्छादनार्थ मायान्सरकरणमित्यन्ये कपट-वेषादिविपर्ययकरणं कूटं कार्षापणतुलाव्यवस्थापत्रादीनामन्यथाकरणं 'साइति अविश्रम्भः एषां सम्प्रयोगः-प्रवत्तिनं तेन बहुलः स वा बहलो यस्य स तथा, 'निस्सीले अपगतशुभखभावः 'निवए' अणुव्रतरहित: 'निर्गुणों गुणवतरहितः 'निप्पचक्खाणपोसहोववासे' अविद्यमानपौरुष्यादिप्रत्याख्यानोऽसत्पर्वदिनोपवासश्चेत्यर्थः, 'बहूर्ण दुपय ॥२३८॥ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510