Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 509
________________ ।। ५ ।। तथाहि - किमपि स्फुटीकृतमिह स्फुटेऽप्यर्थतः, सकष्टमतिदेशतो विविधवाचनातोऽपि यत् । समर्थपदसंश्रयाद्विगुणपुस्तकेभ्योऽपि यत्, परात्महितहेतवेऽनभिनिवेशिना चेतसा ॥ ६ ॥ यो जैनाभिमतं प्रमाणमनघं व्युत्पादयामासिवान्, प्रस्थानैर्विविधैर्निरस्य निखिलं बौद्धादि सम्बन्धि तत् । नानावृत्तिकथाकथापथमतिक्रान्तं च चक्रे तपो, निःसम्बन्धविहारमप्रतिहतं शास्त्रानुसारात्तथा ॥ ७ ॥ तस्याचार्यजिनेश्वरस्य मदवद्वादिप्रतिस्पर्द्धिनः, तद्बन्धोरपि बुद्धिसागर इति ख्यातस्य सूरेर्भुवि । छन्दोबन्धनिबद्धबन्धुरवचः शब्दादिसलक्ष्मणः, श्रीसंविग्नविहारिणः श्रुतनिधेश्चारित्रचूडामणेः ॥ ८ ॥ शिष्येणाभयदेवाख्यसूरिणा विवृतिः कृता । ज्ञाताधर्मकथाङ्गस्य, श्रुतभक्त्या समासतः ॥ ९ ॥ निर्वृतककुलनभस्तलचन्द्रदोणाख्यसू| रिमुख्येन । पण्डितगुणेन गुणवत्प्रियेण संशोधिता चेयम् ॥ १० ॥ प्रत्यक्षरं गणनया, ग्रन्थमानं विनिश्चितम् । अनुष्टुभां सहत्राणि, त्रीण्येवाष्टशतानि च ॥ ११ ॥ एकादशसु शतेष्वथ विंशत्यधिकेषु विक्रमसमानाम् । अणहिलपाटकनगरे विजयदशम्यां च सिद्धेयम् ॥ १२ ॥ समाप्ता चेयं ज्ञाताधर्मकथाप्रदेशटीकेति ॥ Jain Education International WAAAAAAAAAAAAIVARIVARTAN ॥ इति चन्द्रकुलनभस्तलोडपतिप्रभश्रीमद् भयदेवसूरिसूत्रितविवरणयुतं ज्ञाताधर्मकथाङ्गं समाप्तम् ॥ AMANANY For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 507 508 509 510