________________
ज्ञाताधर्म
कथाङ्गम.
च अवतंसके च प्रकम्पमाने चललोलानि-अतिचपलानि ललितानि-शोभावन्ति परिलम्बमानानि-प्रलम्बमानानि नरमकरतु-18 |श्उत्क्षिप्तरगमुखशतेभ्यो-मुकुटाग्रविनिर्मिततन्मुखाकृतिशतेभ्यो विनिर्गतानि-निःसृतानि उद्गीर्णानीव-वान्तानीवोद्गीर्णानि यानि प्रवरमौ-18 ज्ञाते मेघक्तिकानि-वरमुक्ताफलानि तैर्विराजमानं-शोभमानं यन्मुकुटं तच्चेति द्वन्द्वः तेषां य उत्कट आटोपस्तेन दर्शनीयो यः स तथा, दोहदः तथा 'अनेगमणिकणगरयणपहकरपरिमंडियभागभत्तिचित्तविणिउत्तगमणगुणजणियखोलमाणवरललितकुंड-1 सू. १७ लुजलियअहियआभरणजणियसोभे अनेकमणिकनकरत्ननिकरपरिमण्डितभागे भक्तिचित्रे-विच्छित्तिविचित्रे विनि| युक्ते-कर्णयोर्निवेशिते गमनगुणेन-गतिसामर्थ्येन जनिते-कृते प्रेझोलमाने-चञ्चले ये वरललितकुंडले ताभ्यामुज्ज्वलितेन« उद्दीपनेनाधिकाभ्यामाभरणाभ्यामुज्ज्वलिताधिकैर्वाऽऽभरणैश्च कुण्डलव्यतिरिक्तैर्जनिता शोभा यस्य स तथा, तथा "गयज
लमलविमलेदसणविरायमाणरूवे" गतजलमलं-विगतमालिन्यं विमलं दर्शनम्-आकारो यस्य स तथा, अत एव विराजमानं | रूपं यस्य स तथा ततः कर्मधारयः, अयमेवोपमीयते-उदित इव कौमुदीनिशायां-कार्तिकपौर्णमास्यां शनीश्चराङ्गारकयो:प्रतीतयोरुज्ज्वलितः-दीप्यमानः सन् यो मध्यभागे तिष्ठति स तथा नयनानन्दो-लोचनाह्लादकः शरच्चन्द्र इति, शनीश्वरांगारकवत्कुण्डले चन्द्रवञ्च तस्य रूपमिति, तथाऽयमेव मेरुणोपमीयते-दिव्यौषधीनां प्रज्वलेनेव मुकुटादितेजसा उज्ज्वलितं यद्दशनं-रूपं तेनाभिरामो-रम्यो यः स तथा, ऋतुलक्ष्म्येव-सर्वर्तुककुसुमसंपदा समस्ता-सर्वा समस्तस्य वा जाता शोभा यस्य | स तथा, प्रकृष्टेन गन्धेनोद्भूतेन-उद्गतेनाभिरामो यः स तथा, मेरुरिव नगवरः विकुर्वितविचित्रवेषः सन्नसौ वर्तते इति, 'दीवसमुद्दाणं'ति द्वीपसमुद्राणां 'असंखपरिमाणनामधेजाणं'ति असंख्य परिमाणं नामधेयानि च येषां ते तथा तेषां
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org