Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri,
Publisher: Agamoday Samiti
View full book text
________________
प्रत्याख्यातानि सागरोपमकोटीकोव्याः सङ्ख्यातसागरोपमैन्यूनताकरणेन सर्वविरतिलाभतः पापकर्माणि-ज्ञानावरणादीनि येन स तथेति पदत्रयस्य कर्मधारयः, 'कू'ति कूजकं व्यावर्त्तकबलमिति भावः, 'सुई वत्ति श्रूयते इति श्रुतिः-शब्दः तां,
'खुतिं वत्ति क्षुतिः छीत्कारादिशब्दविशेष एव तां प्रयुक्ति-वात्ता, वार्तापर्यायाश्चैते इति, 'हिया वत्ति हृता प्रदेशान्तरे ॥ स्थापिता 'नीता' नेत्रा स्वस्थान प्रापिता 'आक्षिपिता' आकृष्टैवेति, 'इमा अण्णे'त्यादि, इयमन्या अपरा मदीयस्वामिनः ॥ सम्बन्धिनी विनयप्रतिपत्तिरिति वर्तते, 'समुहाणत्तित्तिकट्ठ' स्वमुखेन-स्वकीयवदनेन भणिता आज्ञप्ति:-आदेशः खमुखाज्ञ
प्तिरितिकृता-एवमभिधाय, 'आसुरुत्ते'त्ति क्रुद्धः, 'बलवाउए'त्ति बलव्यापृतः सैन्यव्यापारवान्, 'अभिसेकन्ति अभिषेकमहतीत्याभिषेक्यं मूर्धाभिषिक्तमित्यर्थः, 'छेयायरियउवएसमइविगप्पणाविगप्पेहिति छेको-निपुणो य आचार्य:कलाचार्यः तस्योपदेशात्-तत्पूर्विकाया मतेः-बुद्धेर्याः कल्पना:-विकल्पाः तृप्तिभेदास्ते तथा तैरिति, इह यावत्करणादिदं दृश्य 'सुनिउणेहिं ति सुनिपुणैनरैः 'उज्जलनेवत्थहवपरिवच्छियंति उज्वलनेपथ्येन-निर्मलवेषेण 'हव'न्ति शीघ्रं परिक्षिप्त:परिगृहीतः परिवृतो यः स तथा तं 'सुसज्ज' सुष्ठ प्रगुणं, 'वम्मियसन्नडबद्धकवचियउप्पीलियकच्छवच्छबद्धगेवजगलयवरभूसणविरायंतं' वर्मणि नियुक्ता वार्मिकास्तैः सन्नद्धः-कृतसन्नाहो यः स वार्मिकसन्नद्धः बद्धं कवचंसन्नाहविशेषो यस्य स बद्धकवचः, स एव बद्धकवचिकः, अथवा वर्मितः सन्नद्धः बद्धस्वक्त्राणबन्धनात् कवचितश्च यः स | तथा, भेदश्चैतेषां लोकतोऽवसेयः, एकार्थाश्चैते शब्दाः सनद्धताप्रकर्षाभिधानायोक्ता इति, तथा उत्पीडिता-गाढीकृता कक्षा-हृदयरज्जुर्वक्षसि यस्य स तथा अवेयक-ग्रीवाभरणं बद्धं गले-कण्ठे यस्य स तथा वरभूषणैर्विराजमानो यः स तथा, ततो
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510