Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 465
________________ विणीयविणय'त्ति शिक्षयेव-अश्वदमकपुरुषशिक्षाकरणादिव विनीतः-अवाप्तः विनयो यैस्ते तथा तान्, 'लंघणवग्गणधावणधोरणतिवईजइणसिक्खियगई'त्ति लङ्घनं गर्तादीनां वल्गनं-कूईनं धावन-वेगवद् गमनं धोरणं-चतुरवं गतिविषयं त्रिपदी-मल्लस्येव रङ्गभूम्यां गतिविशेषः एतद्रूपा जविनी-वेगवती शिक्षितेव शिक्षिता गतिस्ते तथा तान्, किं ते इति किमपरं, 'मणसावि उविहंताई'ति मनसाऽपि-चेतसाऽपि न केवलं वपुषा 'उविहंताईति उत्पतन्ति, "अणेगाई आससयाईति न केवलमश्वानेकैकशः अपि तु अश्वशतानि पश्यन्ति स्मेति,गमनिकामात्रमेतदस्य वर्णकस्य भावार्थस्तु बहुश्रुतबोध्य इति। 'पउरगोयर'त्ति प्रचुरचरणक्षेत्राः, 'वीणाण येत्यादि, वीणादीनां तत्रीसङ्ख्यादिकृतो विशेषः, भंभा-ढक्का 'कोहपुडे'त्यादि, कोष्ठपुटे ये पच्यन्ते ते कोष्ठपुटा:-वासविशेषाः तेषां च, इह यावत्करणादिदं दृश्यं-पत्तपुडाण य' पत्राणि तमालपत्रादीनि 'चोयपुडाण य'चोय'त्ति बक्पुट-पत्रादिमयं तद्भाजनं 'तगरपुडाण य एलापुडाण यहिरिबेरपुडाण य चंदणपुडाण यकुंकुमपुडाण य ओसीरपुडाण य चंपगपुडाण य मरुअगपुडाण य दमणगपुडाण य जातिपुडाण य जूहियापुडाण य मल्लियापुडाण य नोमालियापुडाण य वासंतियापुडाण य केयइपुडाण य कप्पूरपुडाण य पाडलपुडाण यत्ति, इह तगरादीनि गन्धद्रव्याणि गान्धिकप्रसिद्धानि, हिरिबेरं-वालकः उसीरं-बेरणीमूलं, केचित्तु पुष्पजातिविशेषाः लोकप्रसिद्धाः, पुष्पजातयश्च प्रायो यद्यपि बहुदिनक्षमा न भवन्ति तथाऽप्युपायतः कतिपयदिनक्षमाः सम्भाव्यन्ते, न च शुष्कतायामपि तासां सर्वथा सुगन्धाभाव इति तद्ग्रहणमिहादुष्टमिति, तथा 'बहुस्स'त्ति बहोः खण्डादेः पुष्पोत्तरा पद्मोत्तरा च शर्कराभेदावेव, 'कोयवगाण यत्ति रूतपूरितपटानां प्रावारा:-प्रावरणविशेषा नवतानि-जीनानि मलयानि मसूरकाणि चासनविशेषाः, अथवा dain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510