Book Title: Gnatadharmkathangasutram
Author(s): Abhaydevsuri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 463
________________ ढवण्णा सारसवण्णा य हंसवण्णा य केई । केइत्थ अब्भवना पक्कतलमेहवन्ना य बहुवन्ना य केइ ॥३॥ संझाणुरागसरिसा सुयमुहगुंजद्धरागसरिसऽत्थ केई । एलापाडलगोरा सामलयागवलसामला पुणो केइ ॥४॥ बहवे अन्ने अणिद्देसा सामाकासी-13 सरत्तपीया अचंतविसुद्धाविय णं आइण्णजाइकुलविणीयगयमच्छरा हयवरा जहोवएसकमवाहिणोविय णं सिक्खाविणीयविणया लंघणवग्गणधावणधोरणत्तिवईजईणसिक्खियगइ, किं ते, मणसावि उविहंताई अणेगाई आससयाई पासंति"त्ति तत्र हरिद्रेणवश्व-नीलवर्णपांसवः श्रोणिसूत्रकं च-बालकानां वर्मादिदवरकरूपं कटीसूत्रं, तद्धि प्रायः कालं भवति, सह कपिलेनपक्षिविशेषेण यो माजोरो-बिडालः स च तथा पादकुकुट:-कुकुटविशेषः स च तथा बोडं-कासीफलं तस्य समुद्गकं-18 | सम्पुटमभिन्नावस्थं कर्पासीफलमित्यर्थः, तच्चेति द्वन्द्वस्तत एषामिव श्यामो वर्णो येषां ते तथा, इह च सर्वत्र द्वितीयार्थे प्रथमा, अतस्तानिति, तथा गोधूमो-धान्यविशेषः तद्वद् गौरमङ्गं येषां ते तथा गौरी या पाटला-पुष्पजातिविशेषस्तद्वद्ये गौरास्ते तथा ततः पदद्वयस्य कर्मधारयः, गोधूमगौराङ्गगौरपाटलागौरास्तान्, तथा प्रवालवर्णाश्च-विद्रुमवर्णान् अभिनवपल्लववर्णान वा रक्तानित्यर्थः, धूमवर्णाश्च-धूम्रवर्णान् पाण्डुरानित्यर्थः, 'केईत्ति कांश्चिन्न सनित्यर्थः, इदं च हरीत्यत आरभ्य बोण्डशब्दे कल्पितार्द्धरूपकं भवति १। तलपत्राणि-तालाभिधानवृक्षपर्णानि रिष्ठा च-मदिरा तद्वद्वर्णो येषां ते तलपत्ररिष्ठावर्णास्तान् , तथा शालिवर्णाश्च शुक्लानित्यर्थः, 'भासवण्णा यत्ति भसवर्णाश्च भाषो वा पक्षिविशेषस्तद्वर्णाश्च कांश्चिदित्यर्थः, 'जंपियतिलकीडगाय'त्ति यापिता:-कालान्तरप्रापिता ये तिला:-धान्य विशेषास्तेषां ये कीटका:-जीवविशेषास्तद्वद् ये वर्णसाधात् ते तथा तांश्च यापिततिलकीटकांश्च 'सोलोयरिडगा यत्ति सावलोक-सोद्योतं यद्रिष्टकं-रत्नविशेषस्तद्वद्ये वर्णसा Jain Education International For Personal & Private Use Only www.jalnelibrary.org

Loading...

Page Navigation
1 ... 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510