Book Title: Dvyasrayakavya Part 02
Author(s): Hemchandracharya, Abhaytilak Gani, Abaji V Kathavate
Publisher: Government Central Press Mumbai
View full book text
________________
३६
घ्याश्रयमहाकाव्ये [जयसिंहः] ६७. स राजा कर्णोकलहकारं कलिवर्जितं तं कुमारमिति वक्ष्यमाणरीत्याह स्म । कीडक्सन् । पदकारस्येव वैयाकरणस्येव वाग् यस्य स वाग्मी तथा मन्त्रकारैर्मत्रिभिः सह संवदंस्तदनुमतिं गृह्णन्नित्यर्थः । यतः किंभूतैः । सूत्रकारैर्नीतिसूत्रकारिभिः शुक्रादिभिः संहावैरकारैस्तत्कृतनीतिसूत्रपाठान्न कलहायमानैर्नीतिज्ञैरित्यर्थः ।।
गाथाकारैः शब्दकारैरचाटुकारवृत्तिभिः । मुनिभिर्भूभद्रकारक्षेमकारप्रियंकरैः ॥ ६८ ॥ क्षेमकरा भद्रंकरा प्रियकारी च कीर्तिता। वृत्तिः कर्मकरीभूतद्विषां मत्पूर्वजन्मनाम् ॥ ६९ ॥ तेषां तु मद्रकाराणां यथा भद्रंकरोभवम् । पूर्वतीर्थकरपथेनान्यतीर्थकरो यथा ।। ७० ॥ ६८-७०. हे कुमार कर्मकरीभूतद्विषां मत्पूर्वजन्मनां मदीयपूर्वजानां वृत्तिायेन पृथ्वीपालनादिरूप आचारो मुनिभिः कीर्तिता प्रशंसिता । यतः किंभूता । क्षेमंकरा बाय॑शरीरस्य धनकनकादे रक्षा क्षेमं तत्की तथा भद्रंकरान्तरस्याङ्गस्य रक्षा भद्रं तत्की तथा प्रियकारी च सर्वलोकवाञ्छितानां की च । किंभूतैः । गाथाकारैः कविभिस्तथा शब्दकारैवैयाकरणैस्तथा न चाटुकारी वृत्तिर्येषां तैनिःस्पृहैरपीत्यर्थः । तथा भूभद्रकारक्षेमकारप्रियंकरैः सर्वथा पृथ्व्या हितैरित्यर्थः ।
१ ए °द्रकराणां मथा. २ सी मद्रक.
१ए कलेव. बी कलहव. २ ए कारास्ये वै०. ३ ए त्यर्थं । य°. ४ ए रैनीति°. ५ सी डी सह वै०. ६ डी नैनिति०. ७ ए °त्तिन्याये. ८ ए 'ह्यस्य श. ९ ए रकक्षा. १० डी था भद्र. ११ ए ङ्गस्यं रक्ष भ. १२ एरैयाकरणःस्त. १३ एत्यर्थ तथभूतभ. १४ ए °व्या हतै,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org