Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 16
________________ शतिजिन स्तुतयः ॥ ४ ॥ Jain Education In CORD विo - असौ देवी, मम सपत्नजने - वैरिणि, दारिद्र्यकृत् भवतु । असौ किविशिष्टा ? अळक्षा-निर्दम्भा । सपत्नजने किंविशिष्टे ? अतिदुःखदे - अधिककष्टदे । पुनः किं० ? वैरस्य विरोधस्य सा सम्पद् यस्य तस्मिन् । असौ किं० ? विगतो दुरितारे:- पापशत्रोः रसो यस्याः सा । पुनः किं० ? वलक्षा-गौरा । असौ का ? या दुरितारिः, देवैः सुरैः, असेोवि-सेव्यते स्म । इव-यथा अन्यभृतां भरै:- पिकत्रजैः, माकन्दमञ्जरिः सहकारमञ्जरिः सेव्यते ॥ ४ ॥ 000 अभिनन्दनजिनस्तुतयः निःशेषसत्त्व परिपालन सत्यसन्धो, भूपालसंवरकुलाम्बरपद्मबन्धो ! | कुर्वन् कृपां भवभिदे जिन ! मे विनम्र - भूपाल संवरकुलां वरपद्म ! बन्धो ! ॥ १ ॥ वि०- हे भूपालसंवरकुलाम्बरपद्मबन्धो ? - अभिनन्दनजिन ! त्वं मे मम भवभिदे -संसारघाताय, अल-उद्यमंकुरु । त्वं किंविशिष्टः ? निश्शेषसत्त्वानां सर्व्वाङ्गिणां, परिपालनाय- रक्षणाय, सत्यसन्धः सम्यक्प्रतिज्ञः । त्वं किं० ? कुर्वन् । कां ? कृपां करुणां । विनम्रा नम्रीभूता भूपा यस्य तत्सं । कृपां किंविशिष्टां ? संवरस्य संयमस्य कुलं समूहो यत्र तां । वरा-प्रधाना, पद्मा-ज्ञानरमा, यस्य तत्सं० हे बन्धो मित्र ! ॥ १ ॥ For Private & Personal Use Only च०स्तु० ॥ ४ ॥ ainelibrary.org

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68