Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
areereaviews
वि०--हे अरजिन ! त्वां अहं सेवे-भजे । त्वां किं कुर्वन्तं ? खण्डयन्तं-दलयन्तं । के ? आम-रोगं । आम किं. ? नास्ति शमनं-शान्तिः यस्य तं । पुनस्त्वां किं कुर्वन्तं ? परितोषयन्त-सन्तोषयन्तं । कं० ? सुदर्शनधरेश-सुदर्शननामनृपं । त्वां किं० ? न तः अन्तवामे-मरणरमण्यौ यस्य तं । तं के ? यस्य तव पदोः पीठे-पादपीठे, सुरालि देवश्रेणिः लुठति-जमाते । पीठे किं० ? अग्रा-प्रधाना सेवा-सेवनं यस्य तस्मिन् । पुनः किं ? सुदर्शनधरे-शोभनदर्शनधरे ॥१॥
सर्वज्ञसंहतिरवाप शिवस्य सौख्यं, सारं भवारिजनिशापतिरोहितश्रीः। शुद्धां धियं कृतधियां विदधातु नित्यं, साऽऽरम्भवारिजनिशापतिरोहितश्रीः ॥ २ ॥
वि०-सा जिनाली शुद्धा-पवित्रां, धियं-बुद्धिं, कृतधियां-विदुषां, विदधातु-जनयतु, नित्यं-सदा । सा कि० ? आरम्भो-हिंसा स एव वारिज-कमलं तत्र निशापतिवत्-चन्द्रवत् रोहिता-जाता श्री:-पमा यस्याः सा । सा का ? पा सर्वज्ञसंहतिः-जिनाली, शिवस्य-मोक्षस्य, सौख्यं-शर्म, अवाप-आप । सौख्यं किं. ? सारं-उत्तमं । संहतिः किं० भव:संमृतिः अरयो-वैरिणो जनिः-जन्म शाप:-शपनं तैः तिरोहिता-रहिता श्री:-शोभा यस्याः सा ॥२॥
हन्ति स्म या गुणगणान् परिमोचयन्ती, साभा रतीशमवतां भवतोदमायाः । ज्ञानश्रिये भवतु तत्पठनोद्यतानां, सा भारती शमवतां भवतो दमाया ॥३॥
POORNavsamvaaaaaaaaaaaaaaaaaan
Jan Education in
For Private Personal Use Only
YOnelibrary.org

Page Navigation
1 ... 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68