Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 55
________________ Jain Education वि० धरणमिया नाम्नी देवी वो युष्माकं दुरितं पापं दुनोतु क्षिपतु । देवी किं० ? श्रीजैनशासनस्य हिताहितकारिणी । पुनः किं० ? निखिलान्समस्ता अहिताल्या - वैरिश्रेण्याः संभित्-संभेदिनी । पुनः किं० ? नता-प्रणता अमरसभा-देवपर्षद् यस्याः सा । पुनः किं० ? सुरैः - देवैः भासमाना - शोभमाना । पुनः किं० ? संभिन्नं विकसितं यत्तामरसं कमलं तद्वद् भासुरा - सुन्दरा भा-प्रभा यस्याः सा । पुनः किं० ? समाना-सन्मानसहिता ॥ ४ ॥ १९ ॥ 000000000 श्रीमुनिसुव्रतजिनस्तुतयः सीमन्तिनीमिव पतिः समस्त सिद्धिं निर्माय विस्मितमहामुनि सुत्रतत्वम् । सोऽयं मम प्रतनुतात्तनुतां भवस्य, निर्माय ! विस्मितमहा मुनिसुव्रत ! त्वम् ॥ १ ॥ विहे मुनिसुव्रत ! सोऽयं त्वं मम भवस्य तनुतां तुच्छत्वं मतनुतात् विस्तारय । निर्गता माया निकृतिर्यस्य तत्सम्बोधनं । त्वं किं० ? विस्मितं विकसितं महस्तेजो यस्य स । स कः ? यो मुनिसुव्रतः सुत्रतत्वं व्रतं निर्माय सिद्धिं मुक्ति समस्त सिद्धिमङ्गीचकार । इव यथा । पतिः भर्त्ता । सीमन्तिनीं स्त्रियं संसजति । सुव्रतत्वं किं० ? विस्थितावि स्वयं नीता महामुनयो यतयो येन तत् ॥ १ ॥ For Private & Personal Use Only ALMA jainelibrary.org

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68