Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
Jain Education Int
यूयं ममन्थ हरिरंभमिवाऽऽधिमस्त-मायामहारिमदनं दितदानवारि ।
जैनं मतं विजयतां तदिदं गमाना- मायामहारि मदनन्दितदानवारि ॥ ३ ॥
1. वि० - जैन मतं - जिनसम्बन्धिप्रवचनं विजयतां सर्वोत्कर्षेण वर्त्ततां । मतं किं० ? गमानां समानपाठानां आयामेन-विस्तारेण हारि-मनो । पुनः किं० ? मदेन-हर्षेण नन्दिताः - प्रीणिता दानवारयः - सुरा येन तत् । पुनः किं० ? तदिदं । तव किं० ? यन्पतं आधि- मनोवाघां ममन्थ विलोडयति रम । इव-यथा । हरि:- सिंहः ऐभं यूथं- हस्तिकुलं मथ्नाति । तत् किं० ? अस्ता निरस्ता माया निकृतिः महारयो वैरिणो मदनः कामो घेन तत् । यूथं किं० ? दितं छिन्नं दानवारि-मदजलं यस्य तत् ॥ ३ ॥
या काल्यऽकिंञ्चनजनानऽतनोदिताब्जं प्रत्यर्थिनो विशदमान गदाक्षमाला ।
सा देवता प्रथयतु प्रथितप्रभावा, प्रत्यर्थिनो विशदमान गदाक्षमाला ॥ ४ ॥ २१ ॥
वि०-सा काली देवता प्रत्यर्थिनो-वैरिणः प्रथयतु करोतु । कीदृशान् ? विशन्ती अमा- अलक्ष्मीः येषु तान् । देवता किं० ? मथितः प्रतीतः प्रभावो-महिमा यस्याः सा । पुनः किं० ? अगदा-रोगवर्जिता अक्षमाला- इन्द्रियाली यस्याः
For Private & Personal Use Only
library.org

Page Navigation
1 ... 57 58 59 60 61 62 63 64 65 66 67 68