Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 53
________________ BBANAVIGAWowNAVANAMAMMAR श्रीमल्लिनाथजिनस्तुतयः श्रीमल्लिनाथ ! शमद्रुमसकेपाथः, कान्तप्रियङ्गुरुचिरोचितकायतेजः !। पादाब्जमस्तु मदनातिमधी विमुक्ताकान्त ! प्रियं गुरु चिरोचितकाय तेऽज ! ॥ १ ॥ वि०-हे श्रीमल्लिनाथ ! ते-तव, पादाब्ज-पदक, चिरं-चिरकालीनं उचित-योग्यं कं-सुखं तस्मै अस्तु-भवतु । पादानं किं ? शमदमस्य-शमद्रोः सेके-सेचने पाथः-पयःसमं । कान्तः-सुन्दरः प्रियङ्गुः-फलिनीद्रुमः तस्य रुचि:| प्रभा तद्वद् रोचितं-शोभितं कायस्य तेजः-प्रकाशो यस्य तत्सं० । हे अज! कृष्णसम ! । क्व ? मदनातिमधौ-कामपीडामधुदैत्ये । विमुक्तं-त्यक्तं अकान्त-अमियं येन तत्सं० । पादाब्जं किं० ? प्रियं-कान्तं । पुनः किं ? गुरु-महत् ॥ १॥ स्याहादिनां ततिरनन्यजमिन्दुकान्ता-च्छा या विडम्बयति संतमसङ्गमानाम् । सा सेवधिः प्रविधुनोतु कृतप्रकाशच्छायाविडम्बयति संतमसं गमानाम् ॥ २ ॥ वि०-सा-जिनततिः संतमसं-अवतमसं प्राविधुनोतु-हिनस्तु । सा किं०? सेवधि:-निधानं । केपी ? गमानां-ज्ञानानां । संतमसं किं० ? कृता-विहिता प्रकाशच्छायाया-ज्ञानश्रियो विलम्बेन यति:-विरतिः येन तत् । डलयोरैक्यात् । RAMAIAAMANA WOMANNAIom Jan Education ime For P ate Personal use only

Loading...

Page Navigation
1 ... 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68