Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund

View full book text
Previous | Next

Page 35
________________ Jain Education In Novin वि०- विद्वज्जनः - पण्डितजनः जिनानां आगमेन सह परिचयं संगतिं चिनुतां करोतु । जिनानां किं ? निर्वाणनिर्टतिपुषा - मुक्तिशर्मपुष, परिचयं किं० १ मचुरस्य भूयसः प्रमादस्य मारो-मारणं यत्र तं, आगमेन किं० ? भवारिहरिणासंसारशत्रोः हरिः - विनाशो यस्मात् तेन, पुनः किं० ! आरम्भो-हिंसा सैव वारि-जलं तत्र हरिः- समीरणसमः तेन, पुनः किं० ? समा-समग्रा मा-श्रीः तस्याः आगमः- आगमनं यत्र तेन ॥ ३ ॥ यस्याः प्रसादमधिगम्य बभूव भूस्पृग्, सारातुलाभमऽमला यतिमानवीनः । शं तन्वती मतिमताममरी शिवानां सा रातु लाभमऽमलायति मानवी नः ॥ ४ ॥ ११ ॥ वि०-सा मानवी नामा अमरी-देवी नो ऽस्माकं शिवानां मङ्गलानां लाभं रातु-दिशतु । मानवी किं कुर्वती ? सम्वती- विस्तारयन्ती । किं० ? शं सुखं । केषां १ मतिमतां पण्डितानां । शं किं० ? नास्ति मलस्य आयतिः विस्तारो यत्र तत् । मानवी किं० १ अमला-निर्मला । सा का ? यस्याः प्रसादमधिगम्य- माप्य भूस्पृग्- नरः, यतिमया विरतिरूपश्रिया नवीनोनवो, बभूव - आसीद । प्रसादं किं० ? सारा-प्रधाना अतुला - असमा आभा - शोभा यस्य तम् ॥ ४ ॥ ११ ॥ Po For Private & Personal Use Only NNNNener nelibrary.org

Loading...

Page Navigation
1 ... 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68