Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
श्रीचतुर्वि अतिजिन स्तुतयः ॥१४॥
SUNNAN
श्रीवासुपूज्यजिनस्तुतयः एनांसि यानि जगति भ्रमणार्जितानि, पर्जन्यदानवसुपूज्य ! सुतानवानि । स्वनाम तानि जनयन्ति जना जपन्तः, पर्जन्यदान ! वसुपूज्यसुताऽनवानि ॥१॥
वि०-३ वसपूज्यमुत ! वासुपूज्यजिन ! वन्नाम-तवाभिधानं जपन्तो-ध्यायन्तो जना-लोकाः तानि-पापानि जनयन्ति-निष्पादयन्ति । तानि कीदृशानि ? सुतानवानि-अतिकृशानि । पर्जन्यो-जीमूतः तद्वद् दान-वितरणं यस्य तत्सं० । तानि कानि ? यानि एनासि-पापानि जगति-विश्वे भ्रमणार्जितानि-भ्रमणेन उपार्जितानि सन्ति । एनासि किं. अनवानि-पुरातनानि । पर्जन्या-इन्द्रा दानवा-असुराः तेषां सुपूज्या-अतिशयेन अर्चनीयः तत्सं० ॥ १॥
ध्यानान्तरे धरत धोरणिमीश्वराणां, वाचंयमा ! मरणदामितमोहनाशाम् । दत्तेहितां भगवतामुपकारकारि-वाचं यमामरणदामितमोहनाशाम् ॥ २ ॥
वि०-हे वाचंयमा ! मुनयः ! यूयं भगवतां पोरणि-जिनराजी ध्यानान्तरे-ध्यानमध्ये धरत । भगवता किं० ? इश्वराणां प्रभूणा, घोरणिं किं.? मरणदो-निधनप्रदो योऽमिता-प्रचुरो मोहो-मोहनामकर्म तस्य नाशो-विनाशो यस्याः ता।
॥१४॥
Jain Education in
For Private Personal Use Only

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68