________________
Jain Education In
Novin
वि०- विद्वज्जनः - पण्डितजनः जिनानां आगमेन सह परिचयं संगतिं चिनुतां करोतु । जिनानां किं ? निर्वाणनिर्टतिपुषा - मुक्तिशर्मपुष, परिचयं किं० १ मचुरस्य भूयसः प्रमादस्य मारो-मारणं यत्र तं, आगमेन किं० ? भवारिहरिणासंसारशत्रोः हरिः - विनाशो यस्मात् तेन, पुनः किं० ! आरम्भो-हिंसा सैव वारि-जलं तत्र हरिः- समीरणसमः तेन, पुनः किं० ? समा-समग्रा मा-श्रीः तस्याः आगमः- आगमनं यत्र तेन ॥ ३ ॥
यस्याः प्रसादमधिगम्य बभूव भूस्पृग्, सारातुलाभमऽमला यतिमानवीनः ।
शं तन्वती मतिमताममरी शिवानां सा रातु लाभमऽमलायति मानवी नः ॥ ४ ॥ ११ ॥
वि०-सा मानवी नामा अमरी-देवी नो ऽस्माकं शिवानां मङ्गलानां लाभं रातु-दिशतु । मानवी किं कुर्वती ? सम्वती- विस्तारयन्ती । किं० ? शं सुखं । केषां १ मतिमतां पण्डितानां । शं किं० ? नास्ति मलस्य आयतिः विस्तारो यत्र तत् । मानवी किं० १ अमला-निर्मला । सा का ? यस्याः प्रसादमधिगम्य- माप्य भूस्पृग्- नरः, यतिमया विरतिरूपश्रिया नवीनोनवो, बभूव - आसीद । प्रसादं किं० ? सारा-प्रधाना अतुला - असमा आभा - शोभा यस्य तम् ॥ ४ ॥ ११ ॥
Po
For Private & Personal Use Only
NNNNener
nelibrary.org