________________
शतिजिन
स्तुतयः ॥ ४ ॥
Jain Education In
CORD
विo - असौ देवी, मम सपत्नजने - वैरिणि, दारिद्र्यकृत् भवतु । असौ किविशिष्टा ? अळक्षा-निर्दम्भा । सपत्नजने किंविशिष्टे ? अतिदुःखदे - अधिककष्टदे । पुनः किं० ? वैरस्य विरोधस्य सा सम्पद् यस्य तस्मिन् । असौ किं० ? विगतो दुरितारे:- पापशत्रोः रसो यस्याः सा । पुनः किं० ? वलक्षा-गौरा । असौ का ? या दुरितारिः, देवैः सुरैः, असेोवि-सेव्यते स्म । इव-यथा अन्यभृतां भरै:- पिकत्रजैः, माकन्दमञ्जरिः सहकारमञ्जरिः सेव्यते ॥ ४ ॥
000
अभिनन्दनजिनस्तुतयः
निःशेषसत्त्व परिपालन सत्यसन्धो, भूपालसंवरकुलाम्बरपद्मबन्धो ! |
कुर्वन् कृपां भवभिदे जिन ! मे विनम्र - भूपाल संवरकुलां वरपद्म ! बन्धो ! ॥ १ ॥
वि०- हे भूपालसंवरकुलाम्बरपद्मबन्धो ? - अभिनन्दनजिन ! त्वं मे मम भवभिदे -संसारघाताय, अल-उद्यमंकुरु । त्वं किंविशिष्टः ? निश्शेषसत्त्वानां सर्व्वाङ्गिणां, परिपालनाय- रक्षणाय, सत्यसन्धः सम्यक्प्रतिज्ञः । त्वं किं० ? कुर्वन् । कां ? कृपां करुणां । विनम्रा नम्रीभूता भूपा यस्य तत्सं । कृपां किंविशिष्टां ? संवरस्य संयमस्य कुलं समूहो यत्र तां । वरा-प्रधाना, पद्मा-ज्ञानरमा, यस्य तत्सं० हे बन्धो मित्र ! ॥ १ ॥
For Private & Personal Use Only
च०स्तु०
॥ ४ ॥
ainelibrary.org