Book Title: Chaturvinshati Jinanandstutaya
Author(s): Meruvijayji, Kumudvijay
Publisher: Devchand Lalbhai Pustakoddhar Fund
View full book text
________________
-
vowwwNAVasanews
वि०-जिनपङ्कामिनीहृदीशा-जिनसूर्याः, तमांसि अज्ञानानि, नाशं नयन्तु । केन ? ज्ञानाता-सबोधतेजसा । तमांसि किपिशिष्टानि निर्मितरी कोपमानयो:-क्रोधस्मययोः करणं येभ्यस्तानि । तानि कानि? यानि तमांसि बहुभवभ्रमणेनसंसारभ्रमेण, सितानि-बदानि सन्ति । कथं ? नितमां-अत्यर्थ । जिनाः किंविशिष्टा-? तप्तनिष्कस्य-स्वर्णस्य, उपमान-उपमा येषां, ईशानि करणानि-शरीराणि येषां ते ॥ २॥
सिद्धान्त ! सिद्धपुरुषोत्तमसंप्रणीतो, विश्वावबोधक ! रणोदरदारधीरः । भव्यानपायजलधेः प्रकटस्वरूप-विश्वाव बोधकरणोऽदरदारधीरः ॥३॥
वि०-हे सिद्धान्त ! त्वं भन्यान् अपायजळधे:-कष्टासन्धोः अव-रक्ष । त्वं किंविशिष्टः ? सिद्धपुरुषोत्तमैः-जिनः संप्रणीत:-प्रकाशितः । विश्वस्य-जगतः अवबोधकः तत्सं० । त्वं किं.? रणोदरस्य-द्वन्द्वमध्यस्य दारो-विनाशः तत्र धीर:-समर्थः । प्रकटस्वरुपा-स्पष्टरूपा विश्वा-भूमिः यत्र तत्सं० । त्वं किं० ! बोधस्य-सम्यग्ज्ञानस्य करणं यस्य सः । पुनः किं.? न विद्यन्ते दरो-भयं दारा:-खियश्च यत्र, ईदृशीं धियं-बुद्धिं रातीति स तथा ॥३॥
माकन्दमञ्जरिरिवान्यभृतां भरैर्या, देवेरसेवि दुरितारिरसावलक्षा। दारिद्रयकृन् मम सपत्नजनेऽतिदुःख-दे वैरसे विदुतारिरसा वलक्षा ॥ ४ ॥
।
Jan Education Inter
For Private Personal Use Only

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68