Book Title: Bhavbhavna Prakaran Part 02
Author(s): Sumtishekharvijay
Publisher: Arihant Aradhak Trust

View full book text
Previous | Next

Page 318
________________ ભવ ભાવના પ્રકરણ ભાગ - ૨ 30७ लब्धेऽपि जिनधर्मे यैः प्रमादः कृतः सुखैषिभिः प्राप्तोऽपि खलु प्रतिपूर्णः रत्ननिधिः हारितः तैः ।।४७९।। यस्य च कुसुमोद्गम एव सुरनरऋद्धिः फलं ति सिद्धिसुखं तमेव जिनधर्मतरुं सिंच शुभभावसलिलेन ।।४८०।। जिनधर्मं कुर्वन् यद् मन्यसे दुष्करमनुष्ठानं तद् औषधमिव परिणामसुन्दरं जानीहि शुभहेतुं ।।४८१।। इच्छन् ऋद्धी: धर्मफलादपि करोषि पापानि कवलयसि कालकूटं मूढश्चिरजीवितार्थ्यपि ।।४८२।। भवभ्रमणपरिश्रान्तो जिनधर्मतरुतले विश्रान्तः मा जीव ! तस्मिन्नपि त्वं प्रमादवनहुतवहं देहि ।।४८३।। अनवरतभवमहापथप्रवृत्तपथिकैः धर्मशंबलकं यैः न गृहीतं ते प्राप्स्यन्ति दीनत्वं पुरतः ।।४८४।। जिनधर्मऋद्धिरहितः रंक एव नूनं चक्रवर्त्यपि तस्यापि येन नान्यत् शरणं नरके प्रपततः ।।४८५।। धर्मफलमनुभवन्नपि बुद्धियशोरूपऋद्ध्यादिकं तमपि खलु न करोति धर्म अहह ! कथं स न मूढात्मा ? ।।४८६।। येनैव धर्मेण गमितो रंकोऽपि राज्यसंपदं तस्मिन्नपि यस्यावज्ञा स भण्यते कथं कुलीन इति ।।४८७।। जिनधर्मसार्थवाहो न सहायो येषां भवमहारण्ये कथं विषयभोलितानां निवृत्तिपुरसंगमस्तेषाम् ? ।।४८८।। निजकमनोरथपादपफलानि यदि जीव ! वांछसि सुखानि तर्हि तं परिसिंच नित्यं सद्धर्मसलिलैः ।।४८९।। यदि धर्मामृतपानं मुधा प्राप्नोति साधुमूले तहिं द्रविणेन क्रीत्वा विषयविषं जीव ! किं पिबसि ? ।।४९०।। अन्यान्यसुखसमागमचिंताशतदुःस्थितः स्वयं कुतः ? । कुरु धर्मं येन सुखं स एव चिंतयति तव सर्वं ।।४९१।। संपद्यन्ते सुखानि यदि धर्मविवर्जितानामपि नराणां तर्हि भवेत् त्रिभुवनेऽपि कस्य दुःखं ? कस्य वा न सुखं ? ।।४९२।। यथा काकिन्या हेतोः कोटी: रत्नानां हारयति कश्चित् तथा तुच्छविषयगृद्धाः जीवा हारयन्ति सिद्धिसुखम् ।।४९३।।

Loading...

Page Navigation
1 ... 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348