________________
ભવ ભાવના પ્રકરણ ભાગ - ૨
30७
लब्धेऽपि जिनधर्मे यैः प्रमादः कृतः सुखैषिभिः प्राप्तोऽपि खलु प्रतिपूर्णः रत्ननिधिः हारितः तैः ।।४७९।। यस्य च कुसुमोद्गम एव सुरनरऋद्धिः फलं ति सिद्धिसुखं तमेव जिनधर्मतरुं सिंच शुभभावसलिलेन ।।४८०।। जिनधर्मं कुर्वन् यद् मन्यसे दुष्करमनुष्ठानं तद्
औषधमिव परिणामसुन्दरं जानीहि शुभहेतुं ।।४८१।। इच्छन् ऋद्धी: धर्मफलादपि करोषि पापानि कवलयसि कालकूटं मूढश्चिरजीवितार्थ्यपि ।।४८२।। भवभ्रमणपरिश्रान्तो जिनधर्मतरुतले विश्रान्तः मा जीव ! तस्मिन्नपि त्वं प्रमादवनहुतवहं देहि ।।४८३।। अनवरतभवमहापथप्रवृत्तपथिकैः धर्मशंबलकं यैः न गृहीतं ते प्राप्स्यन्ति दीनत्वं पुरतः ।।४८४।। जिनधर्मऋद्धिरहितः रंक एव नूनं चक्रवर्त्यपि तस्यापि येन नान्यत् शरणं नरके प्रपततः ।।४८५।। धर्मफलमनुभवन्नपि बुद्धियशोरूपऋद्ध्यादिकं तमपि खलु न करोति धर्म अहह ! कथं स न मूढात्मा ? ।।४८६।। येनैव धर्मेण गमितो रंकोऽपि राज्यसंपदं तस्मिन्नपि यस्यावज्ञा स भण्यते कथं कुलीन इति ।।४८७।। जिनधर्मसार्थवाहो न सहायो येषां भवमहारण्ये कथं विषयभोलितानां निवृत्तिपुरसंगमस्तेषाम् ? ।।४८८।। निजकमनोरथपादपफलानि यदि जीव ! वांछसि सुखानि तर्हि तं परिसिंच नित्यं सद्धर्मसलिलैः ।।४८९।। यदि धर्मामृतपानं मुधा प्राप्नोति साधुमूले तहिं द्रविणेन क्रीत्वा विषयविषं जीव ! किं पिबसि ? ।।४९०।। अन्यान्यसुखसमागमचिंताशतदुःस्थितः स्वयं कुतः ? । कुरु धर्मं येन सुखं स एव चिंतयति तव सर्वं ।।४९१।। संपद्यन्ते सुखानि यदि धर्मविवर्जितानामपि नराणां तर्हि भवेत् त्रिभुवनेऽपि कस्य दुःखं ? कस्य वा न सुखं ? ।।४९२।। यथा काकिन्या हेतोः कोटी: रत्नानां हारयति कश्चित् तथा तुच्छविषयगृद्धाः जीवा हारयन्ति सिद्धिसुखम् ।।४९३।।