Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 373
________________ ૩૬૪ માલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) परिशिष्टम् - १ श्रीमन्मलधारगच्छीयश्रीमद्धेमचन्द्रसूरिसूत्रितं, हरिभद्रीयावश्यकवृत्तिटीप्पणकम् 'आरादेसादिवदिति (३-११), आर् आत् एस् इत्येते आदेशा एतेषु च वर्णानां 5 क्रमनिर्देशमात्रं विद्यते न पुनरभिधेयतया कश्चिदर्थः प्रतीयते इत्येवम्भूतं निरर्थकमभिधीयते । 'वाक्छलादी'ति (३-३), अत्रादिशब्दादर्थच्छलपरिग्रहः, अत्र च द्वयेऽप्युदाहरणं विवक्षया नवकम्बल इत्याद्येकमपि भवति, अत्र हि नवः कम्बलो यस्येत्येवं नवकम्बलशब्दयोरेकवचनान्तत्वे नवशब्दस्य नूतनत्वाभिधायित्वे च विवक्षिते नवकम्बलशब्दयोर्बहुवचनान्तत्वकल्पने नवशब्दस्य सङ्ख्याभिधायित्वे च परिकल्प्यमाने वचनार्थयोरपि छलनोपपद्यते, भेदेन वा किञ्चिदुदाहरणान्तरं 10 स्वधिया वाच्यमिति । 'गोशब्दवदिति (७-८), गोशब्दो हि बहुपर्यायो बह्वर्थ इति तात्पर्यं 'दिशि दृशि वाचि जले भुवि दिवि वज्रेऽशौ पशौ च गोशब्द'' इतिवचनाद्, एवं सूत्रमपि बह्वर्थशब्दयुक्तं विधेयमिति । 'प्रतिमुखमनेकार्थाभिधायकं वा सारवदि'ति (८-५), एतदुक्तं भवति–सारवद्विश्वतोमुखं चेति विशेषणद्वयं स्वतन्त्रतया सूत्रस्य व्याख्यातं, अथवैकमेवेदं सूत्रविशेषणमित्यनेन प्रतिपादयति, ततश्चेत्थं योजना–विश्वतो मुखं प्रतिमुखं प्रतिसूत्रं अनेकार्थाभिधायकं 15 सत् सारवद्भवतीत्येकमेव विशेषणं, वाशब्दो व्याख्यान्तरसूचकः । 'नियुक्तिस्त्वि'त्यादि (९ ४), विचारशब्देनेह चालना गृह्यते । 'धारिणीसहिओ ओलोयण'मित्यादि (१६-३), अत्र भावार्थ:-धारिण्या सहितो राजा अवलोकनं-गवाक्षं गतः, तत्र धारिणी कण्ड्वा गृहीतं भिक्षामटन्तं द्रमकं ददर्श, तं च दृष्ट्वा सानुकम्पा सती नदीसदृशा राजानो भवन्तीति स्वभरिमभिहितवती, यथा हि नद्यस्तोयपरिपूर्णं समुद्रमेव जलेन पूरयन्ति तथा राजानोऽप्यैश्वर्ययुक्तसामन्तादिभ्यो द्रव्यजातं 20 ददति न पुनरीग्विधरङ्केभ्य इत्युपालब्धवती। 'ताओ भत्तगं नेच्छंति'त्ति (१७-३), भोक्तुं नेच्छन्तीत्यर्थः । 'नोस्कन्धो नोग्राम इति वाक्यशेष' इति (२०-७), नोस्कन्धो नोग्रामः स नैगमाद्यशुद्धनयमतेन जीवो नमस्कार इत्यर्थः ॥ तथा सम्यग्दर्शनसाहचर्यादि'त्यादि (२४-९) न केवलं ज्ञानावरणस्य दर्शनमोहस्य च क्षयोपशमेन साध्यते इति योगो, हेतुमाह ★ प्रथम पाना नं. भने बी २i. पंडित नं. सूयवे छे.

Loading...

Page Navigation
1 ... 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418