Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 383
________________ ૩૭૪ છે મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) प्रेष्य नदीपरतटावासितसमस्तप्रतिपक्षराजवर्गस्याख्यापितं-अर्वाग्भागान्नावमारुह्याहमागमिष्यामि परतस्त्वात्मीयमन्त्रिणः प्रेषणीया येन नदीमध्ये सन्धानमुच्यते, समायातास्तथैव, कल्पकेनोक्तंइक्षुकलापकस्य मुष्टिबद्धस्याधस्तादुपरि च छिन्नस्य मध्ये किं भवति ? कुण्डे प्रक्षिप्तदध्नो वाऽधउपरिच्छिन्नस्य मध्ये किं भवति ?, इत्येवमसम्बद्धं जल्पं किञ्चिद्विधाय प्रतिनिवृत्तः, तैश्च 5 मन्त्रिभिर्गत्वाऽऽत्मीयस्वामिभ्यो निवेदितं, ते च राजानश्चिन्तयन्ति-नेत्थमसम्बद्धं कल्पको जल्पति कदाचिदपि, परमस्मदीया मन्त्रिणस्सर्वेऽपि तेन भेदिताः, सम्भवति हि सर्वं तत्पावें सकलबुद्धिसम्पन्नत्वाद्, यदिवाऽसौ जीवतीत्यस्माभिर्जातमभविष्यत् तदा विग्रहमपि नन्देन समं न कश्चिदकरिष्यत्, तस्मादिदानीमप्यपसरणमेव श्रेय इत्येवं विमृश्य सर्वे प्रनष्टाः, इत्येवं कल्पकस्य नीतिशास्त्रे प्रावीण्यमिति । 'लेहे जहा अट्ठारसे' त्यादि (१५४-१), यः किल लाटकर्णाट10 द्रविडदेशजादिलिपीनामष्टादशकमपि वेत्ति तस्य वैनयिकी, अथवा कश्चिदुपाध्यायो राजपुत्रान् पाठयति, ते च दुर्ललितत्वाल्लाक्षागोलकैः क्रीडन्ति न पुनरधीयते, अत उपाध्यायेन स्वबुद्धिप्रकर्षात्तथैव क्रीडन्तोऽप्यमी यथा २ अक्षराण्येकद्विव्याद्यङ्काश्च निष्पाद्यन्ते तथा २ भूमौ गोलकप्रक्षेपं कारयित्वा समस्तलिपीगणितञ्च ग्राहिता: न च क्रीडारसस्तेषां निरुद्ध इत्युपाध्यायस्य वैनयिकी। 'खायजाणएणं भणिय'मिमादि (१५४-२), खातं-कूपवाप्यादि तत्स्वरूपज्ञायकेन केनचिन्नैमित्तिकेन केषाञ्चित्कूप15 खननप्रवृत्तपुरुषाणां कथितम्, एतावद्दूरमवनौ खातायामत्र जलमुन्मीलयिष्यति, तैस्तावत्समधिकं खातं तथापि जलं न प्रादुरस्ति, ततौ नैमित्तिकाय तैराख्यातं-अतिक्रान्तं भवत्कथितं स्थानं तथापि न पानीयमुन्मीलति, नैमित्तिकेन प्रत्यवाचि-यस्मिन्नेव प्रदेशे मया कथितं तस्मिन्नेव जलं केवलं तत्रैवैकस्मिन्पार्वे कूपतटं ताडयत यूयं थासकेन–कुद्दालकेनेत्यर्थः, तथैव तैरनुष्ठितम्, उद्भूतं च तोयमिति नैमित्तिकस्य वैनयिकीत्येवं चूर्ण्यक्षराणि मन्तव्यानीति । 'अणेगआसावहो 'त्ति (१५५20 १) अनेकानश्वानावहतीत्यनेकाश्वावहः, तेन गृहे तिष्ठतोऽन्येऽप्यश्वा बहवो भवन्तीत्यर्थः । गर्दभोदाहरणे कश्चिद्राजा तरुणवयस एव पुरुषान् स्वसन्निधौ धारयति न वृद्धान्, अन्यदा च ससैन्यः कमपि शत्रुमनुधावितोऽसौ, अरण्ये च तोयमन्तरेण बाध्यमानायां सेनायामबहुदृष्टत्वेन तरुणपुरुषेषु जलस्थानान्यजानानेषु किमत्र कटके अस्ति कश्चिदृद्धो यो जलाशयान् जानीत इत्येवं राज्ञा पृष्टं, तत्र चैकेन पदातिना पितृभक्तेन राज्ञः प्रच्छन्नं स्वपिता वृद्ध आनीत आसीत्, तेन च पृष्टेन 25 सता राज्ञः कथितं यत्र किल खरश्चरणाघातान्प्रयच्छन् सादरं भूमिमाजिघ्रति तत्र स्वल्पेऽपि खाते जलमवाप्यते इति वृद्धश्रुतिः, तथैव च खानिते तस्य राज्ञस्तोयशिरादर्शनमभूद्, अन्ये त्वाचक्षतेयेन मार्गेण तोयगन्धमाजिघ्रन्तो रासभा जग्मुस्तन्मार्गमाश्रित्य नीतं समस्तमपि सैन्यं तेन वृद्धेन दृष्टश्च जलाशय इति, वृद्धस्य वैनयिकीत्येवं चूर्ण्यक्षराण्युन्नेयानि । 'लक्षणोदाहरणं' (१५५

Loading...

Page Navigation
1 ... 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418