Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 389
________________ ૩૮૦ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) सिद्धानामवगाहना भवतीति। 'किह मरुदेवीत्यादि गाथा (२१७-५), यद्युत्कृष्टतोऽपि पञ्चधनुश्शतमान एव सिध्यति नाधिकमानः तत्कथं मरुदेव्या मानं पञ्चविंशत्यधिकपञ्चधन:शतलक्षणमपपन्नं स्याद आचार्य आह–नाभेः कुलकरात्सकाशाद् येन किञ्चिन्न्यूनासौ ज्ञातव्या, एतदुक्तं भवति-यद्यपि पञ्चविंशत्यधिकं पञ्च धनुःशतानि नाभेः शरीरप्रमाणं तथा मरुदेव्या अपि "संघयणं संठाणं उच्चत्तं 5 चेव कुलयरेहिं सम" मित्यतिदेशात्तदेव प्राप्नोति तथापि पञ्चधनुःशतमानैवासौ, सूत्रे हि कियन्मात्रेण हीनाधिकेऽपि लाघवार्थमनेकस्थानेषु दृश्यन्ते एवातिदेशा इति भावः, अथवा भवतु नाभिशरीरप्रमाणा तथापि करिस्कन्धावरूढत्वात्सङ्कचितगात्रा सिद्धेति न यथोक्तावगाहनाविरोध इति माथार्थः । जघन्यावगाहनाया विप्रतिपत्तिमाविष्कुर्वन्नाह पर:-'सत्तूसिएसु'इत्यादि (२१७-७), ननु प्रज्ञापनादिग्रन्थेषु जघन्यपदेऽपि सप्तहस्तोच्छ्रितस्यैव सिद्धिरुक्ता अतः कथमिह जघन्यतो 10 द्विहस्तशरीरमानस्य मुक्तिरुच्यमाना न विरुध्यते ?, एवं परेणोक्ते पश्चार्द्धनोत्तरमाह-किले 'ति वृद्धवादसूचायां, एवं किल वृद्धा व्याचक्षते-सा प्रज्ञापनाद्युक्ता सप्तहस्तप्रमाणा जघन्यावगाहना तीर्थकृतामेव द्रष्टव्या, जघन्यपदेऽपि तीर्थकर: सप्तहस्तमान एव सिद्ध्यतीत्येवंविषयैवेतिभावः, तीर्थकरव्यतिरेकेण तु शेषजीवानां सिद्ध्यतां-सिद्धिमासादयतां जघन्यपदे याऽत्रोक्ता द्विहस्तप्रमाणाऽवगाहना सैव द्रष्टव्येति वाक्यशेष इति गाथार्थः, के पुनस्ते ये. द्विहस्ताः सिद्धा 15 इत्याह-'ते पुणे'त्यादि (२१७-८), ते पुनर्जघन्येन द्विहस्तप्रमाणाः कूर्मपुत्रादयः सिद्धा भवेयुः, अन्ये पुनरभिदधति-सप्तहस्तप्रमाण एव यो मयूरबन्धादिना संवर्त्य बद्धो यन्त्रे वा निपीड्यमानः सङ्कचितो द्विहस्तीभूतः सन् सिद्धयति तस्यैव जघन्या द्विहस्तप्रमाणावगाहना प्राप्यते न पुनः स्वरूपतोऽपि कश्चिद् द्विहस्तः सिद्ध्यतीति गाथार्थः, किञ्च प्रायोवृत्तिमाश्रित्य जघन्यतः सप्तहस्ता उत्कृष्टतस्तु पञ्चधनु:शतानि सूत्रे मानमुक्तं इतरथा हीनमप्यधिकं वा कियताऽपि कस्यचित्स्यादेवेत्याह20 'बाहुल्लओ य'इत्यादि (२१८-१), बाहुल्यमाश्रित्य सूत्रे सप्त हस्ता जघन्यं पञ्चधनुःशतानि चोत्कृष्टं मानमुक्तम्, इतरथा कस्यचिज्जीवस्याङ्गलपृथक्त्वैः कैश्चिज्जघन्यं सप्तहस्तलक्षणं मानं हीनमपि स्याद्, उत्कृष्टमपि पञ्चधनुश्शतलक्षणं मानमभ्यधिकमपि कैश्चिद् धनुःपृथक्त्वैर्भवेदिति यथासङ्ख्यं सम्बन्धः, ततश्च यद्यपि कैश्चिद्धनुःपृथक्त्वैर्मरुदेव्याः शररीमानमभ्यधिकं तथापि न कश्चिद्दोष इति गाथार्थः, किञ्च-सप्तहस्तमानादधस्तात् पञ्चधनुश्शतेभ्यश्चोपरि वर्तमानस्य 25 यत्कस्यचिज्जीवस्य सिद्धिगमनं तदाश्चर्यप्रायमिति यद्यपि सामान्यमुमुक्षुजीवशरीरमानप्रतिपादके सूत्रे न निबद्धं तथापि पञ्चशतादेशवचनवत्प्रमाणयितव्यमेव, न हि पञ्चशतान्यादेशानां क्वचित्सूत्रे निबद्धानि न च तानि न प्रमाणमिति, आह च-'अच्छेरयादि'इत्यादि, (२१८-२), गाथा व्याख्यातैव, नवरमाश्चर्यादीत्यादिशब्दात्प्रविरलजीवभावित्वादिपरिग्रहः । 'केनचित् प्रकारेण

Loading...

Page Navigation
1 ... 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418