Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 407
________________ ૩૯૮ મલધારી હેમચન્દ્રસૂરિષ્કૃત ટીપ્પણક (ભાગ-૪) इत्यनेनैव गतार्थे त्रिविधं त्रिविधेन व्युत्सृजति पापमिति यद्द्द्वितीयपदोपादानं तेनैवं किल ज्ञापयति यत्र सावद्ययोगे प्रवृत्तिरासीत् ततो निवृत्त इति प्रतिपादितं 'सावज्जजोगविरओ' इत्यनेन पदेन यदेष्यं पापं ततोऽनिवृत्त एव किल एष प्रतीयते अतस्तन्निवृत्तिप्रतिपादकं द्वितीयपदमिति विशेषत उक्तं वृत्तिकृता त्रिविधं त्रिविधेन व्युत्सृजति पापमेष्यमिति, कदा पुनरयमेवंविधः कर्त्ता भवतीत्याह— 5 'सामायिकादौ' (३५६ - ८), सामायिकारम्भसमय इत्येवं सम्बन्धो, यदा तु सामायिकादौ सूत्र इत्यनेन द्वितीयव्याख्यानेन 'करेमि भंते! सामाइय' मित्यादिसूत्रं गृह्यते तदेत्थं सम्बन्धः, एषोऽनुगमः परिसमाप्तः, क्व विषये योऽसावनुगम इत्याह- 'सामायिकादौ सूत्रे' करेमि भंते ! सामाइयमित्यादिसूत्रविषय इत्यर्थः । सामायिकाध्ययनं समाप्तमिति ॥ ॥ इति म. हेमचन्द्रसूरिकृतटीप्पणकस्य चतुर्थो विभागः समाप्त ॥

Loading...

Page Navigation
1 ... 405 406 407 408 409 410 411 412 413 414 415 416 417 418