Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
૩૯૬ ના માલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) स्वसात्म्यादिकारणात्कटुकमपि मधुरमिवाभातीति भावः । 'भूतार्थालोचनायां समं तुलाद्रव्य'मिति, (३१०-११)भूत:-सद्भूतः तौल्ये कियत्प्रमाणोऽयमर्थ इत्यालोचनायां-तत्तौल्यप्रमाणजिज्ञासायां सत्यां यथावस्थितप्रतिपादकत्वेन समं तुलाद्रव्यमेवेत्यर्थः । कण्ठतस्तावदुक्ते चालनाप्रत्यवस्थाने'इत्यादि (३१९-७), ननु च "को कारओ करितो" इत्यादौ परस्य कादिस्वरूपं प्रश्नयतः सूरेरपि 5 तत्कथयत उभयोरपि पुनरुक्तता, 'आया खलु सामइय'मित्यादिना तत्स्वरूपस्यानेकस्थानेषु पूर्वमेव निरूपितत्वाद् इत्याशङ्कयाह-'अत एव चात्र पुनरुक्ते'त्यादि, यत एव चालनाप्रत्यवस्थाने एते न स्वरूपकथनं अत एव न पुनरुक्तता, कुत इत्याह–'अनुवादद्वारेणे'त्यादि, एतदुक्तं भवतियत्किमपि कादिस्वरूपं सूरिरभिधास्यते तदहं निराकरिष्यामीति चालनाचिकीर्षया परस्य प्रश्नो
यद्यसौ तत्स्वरूपं मयोक्तं निराकरिष्यति तदहं स्थापयिष्यामीत्यभिप्रायवतश्च सूरेनिर्वचनं न तु 10 मुख्यतया तत्स्वरूपप्रतिपत्त्यर्थमित्यदोषः । 'विवक्षितं घृत'मिति (३२१-३), प्रतिनियतैकभाजना
दिस्थितं न पुनः समस्तजगद्गतमिति भावः । अत्र च (तु) क्षायोपशमिकभावसर्वेणाधिकार'इति (३२४-२), सर्वशब्दोऽन्तर्जाल्पाकारः किल श्रुतज्ञानरूपः श्रुतं च क्षायोपशमिके भावे वर्तते अतो युज्यते क्षायोपशमिकभावसर्वेणाधिकार इति । 'दानपुण्यफला कीर्ति'रिति (३३२-७), दानपुण्याभ्यां फलति २ कस्याचिद्दानसमुत्था अपरस्य तु तथाविधं दानमप्रयच्छतोऽपि पूर्वभवोपात्त15 पुण्यवशात्कीर्तिः प्रादुरस्तीति भावः । 'अन्यमपीत्यतिरिच्यत इति (३३४-४), करंतंपि अन्नं न
समणुजाणामीत्यत्रापिशब्दोऽन्यशब्दश्चातिरिच्यत इत्यर्थः, तत्रापिशब्दस्य फलमाह-'यस्मात् सम्भावनेऽपिशब्दोऽय'मित्यादि (३३४-५) । अन्यशब्दफलमाह-'न क्रियाक्रियावतो रित्यादि
(३३४-९) । 'अतस्तद्भेदोपदर्शनायेति (३३५-९), यतः सावधं योगं त्रिविधेन प्रत्याख्या___ त्यतस्तद्भेदोपदर्शनाय-सावद्ययोगप्रत्याख्यानभेदोपदर्शनाय 'सीयालं भंगसय'मित्यादि-गाथामाहेत्यर्थः । 20 'तो कह निज्जुत्तीए'इत्यादि (३३७-१) गाथाव्याख्या यदि प्रज्ञप्त्यां त्रिविधं त्रिविधेन गृहिणः
प्रत्याख्यानमुक्तं ततः कथं नियुक्त्यां वक्ष्यमाणप्रत्याख्यानाध्ययनसम्बन्धिन्यां "अणुमइनिसेहो"त्ति अनुमतिप्रत्याख्यानस्य निषेधः क्रियमाणो घटते, तथाहि-तत्र 'दुविहं तिविहेण पढमो' इत्याद्येव वक्ष्यति, न पुनः 'तिविहं तिविहेणं पढमउ'त्ति एवं परेणोक्ते सत्युत्तरमाह—(सो सविसयंमित्ति)
स निर्युक्तावनुमतिप्रत्याख्याननिषेधः स्वविषये मध्यमखण्डादिरूपे यत आयातं वस्तु25 वस्त्रहिरण्यश्रीखण्डादि परिभुङ्क्ते तद्विषयो द्रष्टव्यो, विषयबहिर्वर्तिस्वयम्भूरमणमत्स्यादिप्रत्याख्यानविषयं
तु प्रज्ञप्त्यां त्रिविधं त्रिविधेनेत्युक्तमित्यदोषः, समाधानान्तरमाह-'सामन्ने वा नत्थी'त्यादि (सामण्णेणं नत्थि) यो वा अमुकक्षेत्रवर्त्तिन इति विशेषमन्तरेण सामान्यतो द्वीन्द्रियादयो मया न हन्तव्या. इत्येवं प्रत्याख्याति तस्य नास्त्येव त्रिविधं त्रिविधेन प्रत्याख्यानं, तद्विषयः स निर्युक्तावनुमतिनिषेधः,
Page Navigation
1 ... 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418