Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 392
________________ ३८३ परिशिष्टम् - १ न संवदतीति युक्तं चर्चितमिति । 'बाहिराहउत्ति (२४३ - ८ - विवहाराहओ वृ०), बहिर्हिण्डको व्यसनोपहत इतियावत् । 'सो संभंतो चिंतेती 'त्यादि (२४५-५), ततश्चानेन संभ्रान्तेन चिन्तितंकिमन्यान्येतानि पुष्पाणीति ?, सा च पृष्टा - कुतस्त्वया समानीतान्येतानि ?, तया कथितं त्वया निरूपितघटाद्, अतस्तेन स्वयं गत्वा निरीक्षिते दृष्टो घटः पुष्पगतं च वृन्तपत्रादि किञ्चित् तत्रैव स्थितम् । 'अक्खपडिय'त्ति (२४६-४), गोलकाकर्षणक्रमेण कृतवारकाः । नमस्कारनिर्युक्तिः 5 समाप्ता । सूत्रस्पर्शका निर्युक्तिरारभ्यते - 'साम्प्रतं सूत्रोपन्यासार्थ 'मित्यादि (२४९-५), सूत्रोपन्यासार्थं वस्तुतः सूत्रस्पर्शनिर्युक्तिगतामेव गाथामाहेति, ननु "नंदिमणुओगे" त्यादिगाथया न कश्चित्सूत्रावयवः स्पृश्यते तत्कथमियं सूत्रस्पर्शनिर्युक्तिगतेत्युच्यते ?, इत्याशंक्याह — ' प्रत्यासत्तियोगादि 'ति, एतदुक्तं भवति, अनया गाथया सम्बन्धे घटितेऽनन्तरमेव सूत्रस्पर्शनियुक्तिर्भणिष्यत इति यद्यप्यनया 10 न कश्चित्सूत्रावयवः स्पृश्यते तथापि सूत्रस्पर्शकनिर्युक्तेरत्यन्तं प्रत्यासन्नेति वस्तुतस्तद्गतेत्युच्यते । ‘अहीनाक्षरमनत्यक्षर’मित्यादि ( २५१-४), यद्यप्येतानि पदानि पूर्वं नन्द्यादौ व्याख्यातानि तथ मन्दस्मृतिशिष्यानुग्रहाय लेशतो व्याख्यायन्ते - अहीनाक्षरं - यत्र हीनमक्षरं न भवति, अनत्यक्षरंयत्राक्षरमधिकं न भवति, व्यत्यासितवर्णविन्यासं व्याविद्धाक्षरमुच्यते उत्क्रमप्रोतरत्नमालावत् न तथा अव्याविद्धाक्षरं, उपलशकलाकुलावनौ हलवद् यदधीयानः स्खलति तत् स्खलितं न 15 तथाऽस्खलितमुच्यते, असदृशधान्यमीलकवद् यन्न वर्त्तते तदमिलितमिति आख्यायते, 'प्राप्तराज्यस्य रामस्य राक्षसा निधनं गता' इत्यादिवाक्यवद् यदस्थानविरतिमन्न भवति तदव्यत्याम्रेडितं, मात्रांशकादिनियतमानं प्रतिपूर्णं, उदात्तादिघोषसमन्वितं प्रतिपूर्णघोषं बालमूकभणितवद् यदव्यक्तं न ‘भवति तत्कण्ठोष्ठविप्रमुक्तमुच्यते, वाचनोपगतं नाम यद् गुरुदत्तवाचनयाऽधीतं न पुनः स्वयमेव पुस्तकमादाय पठितमिति || ' अथवा परः सन्निकर्ष ' इति (२५१ - ९), यो विसन्धिभावेनोच्चारणरूपः 20 सन्निकर्षः स वा संहितेत्यर्थः, पदानि किल विसन्धिभावेनोच्चारयिष्यन्त इति संहितापदयोर्विशेष इति । 'निवासचितिशरीरोपसमाधानेष्विति ( २५४-८), एतेष्वर्थेषु चिनोतेरादेः को भवति, एते च सर्व्वेऽप्यर्था अत्र च कायशब्दे व्युत्पाद्ये घटन्त एवेति यथाक्रमं दर्शयति- जीवस्य निवसादि शरीरं कायोऽभिधीयते कुतो ?, जीवस्य निवासादिति सर्व्वाण्यपि पञ्चम्यन्तपदान्येवं योजनीयानि, एतदुक्तं भवति - यदा जीवनिवासत्वेन कायो विवक्ष्यते तदाऽत्रापि निवासलक्षणोऽर्थो लभ्यते, तथा 25 चितिशब्देनापि निचयोऽभिधीयते, ततश्चात्रापि यदा पुद्गलनिचय: कायशब्दस्याभिधेयतया विवक्ष्यते तदा चित्यर्थोऽपि लभ्यते, पुद्गलविशरारुतायां च कायशब्दस्याभिधेयतया विवक्षितायां शरीरलक्षणोऽर्थः प्राप्यते, यदा च तेषामेव पुद्गलानामवयवेषु करचरणादिषु समाधानं सङ्घातो मीलनं कायशब्दाभिधेयता

Loading...

Page Navigation
1 ... 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418