Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

View full book text
Previous | Next

Page 395
________________ ૩૮૬ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) षट्त्रिंशदधिकानि क्षुल्लकभवग्रहणानां भवन्तीति वृद्धसम्प्रदायः, तदुक्तं- “पन्नडिसहस्साई पंचेव सया हवंति छत्तीसा । खुड्डागभवग्गहणा एगमुहत्तंमि एवइया ॥१॥" आनापानाश्चैकस्मिन्मुहूर्ते त्रीणि सहस्राणि सप्तशतानि त्रिसप्तत्यधिकानि भवन्ति, यदाह-तिन्नि सहस्सा सत्त य सयाणि तेवत्तरिं च ऊसासा । एस मुहत्तो भणिओ सव्वेहि अणंतनाणीहिं ॥१॥ ततश्चानेनानापानराशिनाऽनन्तरो5 पदर्शितक्षुल्लकभवग्रहणराशेर्भागोऽपहियते, तद्यथा-६५५३६ ’ ३७७३ लब्धं १७ उद्धरितस्त्वयं राशिः अत्र च यदि कश्चित्सूक्ष्मेक्षिकतया ज्ञातुमिच्छति तदा त्रयोदशशतानि पञ्चनवत्यधिकानि पुनरपि शतद्वयेन षट्पञ्चाशदधिकेन गुण्यन्ते, यत एतावत्य आवलिका एकस्मिन् क्षुल्लकभवग्रहणे भवन्तीति वृद्धाः, तथा चाहु:- "दो य सया छप्पन्ना आवलिआणं तु खुडुभवमाणं । जियरागदोसमोहेहिं जिणवरेहिं विणिढेि ॥१॥" ततश्चायं राशिर्भवति–३५७१२० + ३७७३, लब्धाश्चतुर्णवतिरावलिकाः . 10 सातिरेकाः, एतावताऽभ्यधिकानि सप्तदशक्षुल्लकभवग्रहणा न्येकस्मिन्नानापानकाले भवन्ति । 'उक्कोसो समऊणो' इत्यादि (२६५-८) गाथाव्याख्या उत्कृष्ट औदारिकस्य सङ्घातपरिशाटकाल: पल्योपमत्रयलक्षणः समयेन हीनो य उक्त इति शेषः 'उक्कोसगं तु पलियत्तियं तु समऊण'. मित्यनेन ग्रन्थेन, स किमित्याह-स संघातनासमयेन हीनो मन्तव्यो, देवकुर्खादिषु भवान्तरादायातस्य यः प्रथमः संघातसमयस्तस्मिन्नपनीते शेषः समयोनपल्योपमत्रयलक्षणः कालोऽयमवाप्यत इत्यर्थः। 15 ननु यथा पल्योपमत्रयात्सर्वसंघातसमयोऽपनीयते तथा चरमसमयभावी सर्वपरिशाटसमयोऽप्यपनेय एव अतो द्विसमयहीनः कालोऽयं प्राप्नोतीति, एतदेवाह पर:-'किह न दुसमये 'त्यादि (२६५ - ९), कथं-केन प्रकारेण न द्विसमयहीनोऽसौ पल्योपमत्रयलक्षणः कालो भवति, क्वं सति ?सङ्घातसमयवत्परिशाटकसमयेऽपनीते सतीति गाथार्थः । अत्राचार्यो निश्चयमतमालम्ब्योत्तरमाह'भन्नती'त्यादि, भण्यते अत्र प्रत्युत्तरं, किं तद् इत्याह-भवस्य मनुष्यादिसम्बन्धिनो योऽसौ 20 चरमसमयस्तस्मिन्नपि संघातपरिशाटौ समुदितावेव प्रवर्तेते, यस्तु केवलः परिशाटः स परभवसमय एव अतो न तेन हीनः कालः पल्योपमत्रयलक्षणः, निश्चयनयो हि निर्जीर्यमाणं निर्जीर्णमिच्छत्यतो यस्मिन् समये समस्तायुर्दलिकनिर्जीयमाणतालक्षणः सर्वपरिशाटः स परभवायुष एव प्रथमसमय इति न प्राक्तनायुषो मध्यादपनेय इति गाथाभावार्थः । एवमभ्युपगमेऽन्यदोषं पश्यन् पुनरपि पर: प्रेरयति—'जइ परपढमे' इत्यादि (२६६-१), यदि परभवप्रथमसमये प्राक्तनशरीरपुद्गलानां 25 सर्वपरिशाटोऽभ्युपगम्यते हन्त तर्हि यदा कश्चिज्जीवो निर्विग्रहतो-विग्रहमकृत्वा ऋजुश्रेण्यैवोत्पद्यते तदा तस्मिन्नेव समये अग्रेतनशरीरपुद्गलानां सर्वसङ्घातोऽप्यभ्युपगन्तव्य एव, भवत्वेवं को दोष इति चेद् अत्राह-ननु सर्वपरिशाटः सर्वसंघातश्चेत्येतद्वयं समय इत्येकस्मिन्नेव समयेऽभ्युपगम्यमानं विरुध्यते, युगपदायुर्द्वयानुभवप्रसङ्गात्, न चैतत्सिद्धान्तेऽभ्युपगम्यत इति गाथार्थः । अत्राचार्यो

Loading...

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418