Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
३८० * भसधारी डेभयन्द्रसूरिद्धृत टीप्पड ( भाग - ४ )
संघातसमय एवैक उभयान्तरे भवतीति, उत्कृष्टमुभयान्तरमाह - परमं प्रकृष्टं उभयान्तरमिति सम्बध्यते, सह त्रिभिः समयैर्वर्त्तत इति सत्रिसमयानि त्रयस्त्रिंशत्सगारोपमाणि भवन्ति, कदा पुनरमूनि लभ्यन्ते ? इत्याह-देवादिष्वादिशब्दादप्रतिष्ठाने त्रयस्त्रिंशत्सागरोपमाणि अनुभूयेहागतस्य तृतीयसमये संघातयतो ज्ञेयानि समयकुशलैः, अयमन्त्र भावार्थ : - इह कश्चिन्मनुष्यादिः स्वभवचरमसमये संघातपरिशायै समुदितौ कृत्वा अनुत्तरसुरेष्वप्रतिष्ठाने वा यदा त्रयस्त्रिंशत्सागरोपमाण्यनुभूय पुनरपीह. विग्रहेणोत्पन्नस्तृतीयसमये संघातं कृत्वा तत उभयमारभते तदा द्वौ विग्रहसमयावेकश्च संघातसमयो देवादिभवसम्बन्धीनि च त्रयस्त्रिंशत्सागरोपमाण्युत्कृष्टोभयान्तरे प्राप्यन्त इति गाथाद्वयार्थः । औदारिकसङ्घातादिवंक्तव्यता समाप्ता ॥
वैक्रियोभयस्य भावनामाह — 'उभयं जहन्नसमओ' गाहा (२७१ - ६), उभयं - संघात -. 10 परिशाटलक्षणं जघन्यं वैक्रियशरीरस्य समयप्रमाणं भवति, कस्य तद्भवतीत्याह- समयद्वयं विकुर्व्य मृतस्य, यो हि किलौदारिकशरीरी वैक्रियमारभ्य प्रथमसमये सर्व्वसंघातं द्वितीयेसमये तु संघातपरिशाटयै विधाय म्रियते तस्यैकसामयिकं वैक्रियस्य संघातपरिशाटलक्षणमुभयमवाप्यते, उत्कृष्टं वैक्रियोभयकालमाह-परं - उत्कृष्टं वैक्रियस्योभयं संघातसमयहीनानि त्रयस्त्रिंशत्सागरोपमाण्यनुत्तरदेवस्याप्रतिष्ठाननारकस्य वा भवन्तीति गाथार्थः । वैक्रियस्यैव सङ्घाताद्यन्तरभावनामाह15 'संघायंतरसमओ' गाहा (२७२ - १), व्याख्या - एकदा वैक्रियसंघातं कृत्वा पुनरपि वैक्रियसंघातं कुर्वतो जघन्यमन्तरं समयो भवति, कदा ? इत्याह - " समये" त्यादि जघन्यान्तरकालस्तृतीयसमये दिवि संघातयतो विज्ञेयः, कस्य ? - समयमेकं विकुर्व्य मृतस्य, यो ह्यौदारिकशरीरी समयमेकं वैक्रियसंघातं कृत्वा मृतः सन् समयमेकं विग्रहं च विधाय तृतीयसमये दिवं गत्वा संघातयति तत्सम्बन्धिनः सङ्घातद्वयस्य विग्रहसमयोऽन्तरे प्राप्यत इति भावना, अथवेदमेवान्तरं प्रकारान्तरेणाह - 20 तृतीये वा समये मृतस्य तृतीयसमये सङ्घातयत इति सम्बध्यते, एतदुक्तं भवति-यः कश्चिदिहौदारिकशरीरी वैक्रियलब्धिमान् वैक्रियशरीरमारभ्य प्रथमसमये सङ्घातं विधत्ते द्वितीयसम च सङ्घातपरिशायै तृतीयसमये म्रियते तस्मिन्नेव च तृतीयसमये निर्विग्रहेण सुरलोकमवाप्य वैक्रियसङ्घातं करोति तस्य जन्तो: सम्बन्धिनः सङ्घातद्वयस्यान्तरे सङ्घातपरिशाटसमयः प्राप्त गाथार्थः । “ततिए व मयस्स ततियंमित्ति" एतद्गाथादलं किञ्चिद्दुरवबोधमिति सम्प्रधार्य भावनामात्रमाह 25 वृत्तिकार:- अविग्रहेण सङ्घातयत इत्यादि भावितमेवेति, साम्प्रतमुभयस्य परिशाटस्य चान्तरकालभावनामाह—' उभयस्सेत्यादि' गाथा (२७२-३), व्याख्या - उभयस्स - वैक्रियसम्बन्धिनः संघाटपरिशाटलक्षणस्य समय एको जघन्यमन्तरमित्यध्याहारः कस्य जन्तोरिदमवाप्यते ? इत्याहू - चिरमन्तर्मुहूर्त्तमानं कालं विकुर्व्य वैक्रियवपुषि स्थित्वा मृतस्य देवेष्वविग्रहगतस्य जन्तोः
5
Page Navigation
1 ... 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418