Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 398
________________ परिशिष्टम् - १ ३८८ यत्त्विह कश्चित् संयतमनुष्य औदारिकसर्वशाटं कृत्वेत्यादिनोत्कृष्टशाटयन्तरभावनां कुर्वता परिपूर्ण पूर्वकोट्यधिकानि त्रयस्त्रिंशत्सागरोपमाणि वृत्तिकारेणोक्तानि न पुनः समयहीनपूर्वकोट्यधिकानि तत् किल 'खुड्डागभवग्गहणं जहन्नमुक्कोसयं तु तेत्तीस 'मित्यादिभाष्यगाथामनुवर्त्तमानेनोक्तं, ननु यदि समयहीनं क्षुल्लकभवग्रहणं सर्वशायन्तरं वृत्तिकृतोऽप्यभिप्रेतं तर्हि गाथायां यदुक्तं "तिसमयहीणं खुड्डु"मित्यादि तत्कथमुपपन्नं स्याद् ?, इदं हि गाथाशकलमनन्तरमेव वृत्तिकारेण स्वयमेवेत्थं 5 विवृतं, तत्र त्रिसमयहीनं सर्वबन्धस्य क्षुल्लं तु सम्पूर्णं सर्वशाटस्येति, उत्कृष्टशाटयन्तरपक्षे तु न किञ्चिद् ब्रूमः, तस्य गाथायामनुक्तस्यैव वृत्तिकृता भाष्यगाथानुवृत्त्या भावितत्वादिति, अत्राहस्वयमेव वृत्तिकारः ‘तथा च किलैवमक्षराणि नीयन्त इत्यादि ( २६९ - २), एतदुक्तं भवतिनात्र कर्म्मधारयः क्रियते त्रयश्च ते समयाश्चेति किन्तु द्वन्द्वः त्रयश्च समया इति गम्यते समयश्च त्रिसमयास्तैर्हीनं, एवं तु सति सर्वबन्धस्य त्रिभिः सर्वशाटस्य च समयेन हीनं क्षुल्लकमित्युक्तं 10 भवति, इदं च सर्वं भाष्यकारेण सह विरुध्यते, यतः स आह - "खुड्डागभवग्गहणं जहन्नमुक्कोसयं च तेत्तीसं । तं सागरोवमाइं सपुन्ना पुव्वकोडी उ ॥१॥" अत्र चोत्तराध्ययनबृहट्टीकादिषु भाष्यकृद्वचनसमर्थकं समाधानं दृश्यते तच्चेदं - अनन्तरातीत भवचरमसमय एव कश्चिदौदारिकशरीरी सर्वपरिशाटं कृत्वा वनस्पतिषूत्पद्यते, न पुनर्वनस्पत्यायुषः प्रथमसमये सर्वपरिशाटं करोति, व्यवहारमताश्रयणात्, “परभवपढमे साडण" मित्यस्य च निश्चयमताश्रयणात्, ततश्च यदा वनस्पतिषूत्पन्नः 15 परिपूर्णक्षुल्लकभवग्रहणमतिवाह्यान्यत्रोत्पद्यते तदा परभवप्रथमसमये सर्वशाटं करोति, अत्र निश्चयमताश्रयणाद्व्यवहारनयमतस्य चानाश्रयणाद्, एवं च सत्यादौ व्यवहारनये पर्यन्ते च निश्चयनये समाश्रियमाणे सम्पूर्णं क्षुल्लकभवग्रहणं साटद्वयस्यानन्तरमवाप्यत इत्येवं न भाष्यकृद्वचो विरुध्यते, तथोत्कृष्टान्तरपक्षेऽपि यदा कश्चित् संयतमनुष्यस्तद्भवस्यैव चरमसमये उक्तन्यायेन सर्वपरिशाटं करोति न परभवस्य प्रथमसमये तदानुत्तरेषु परिपूर्णानि त्रयस्त्रिंशत्सागरोपमाणि, पुनरपि च 20 मनुष्येष्वागतः पूर्वकोटिं चातिवाह्यान्यत्रेोत्पद्यमानो निश्चयनयमतेन परभवप्रथमे साटं करोति तदा त्रयस्त्रिंशत्सागरोपमाणि सम्पूर्णा च पूर्वकोटिः शारद्वयस्योत्कृष्टमन्तरमवाप्यत इत्येवमुत्कृष्टपक्षेऽपि भाष्यकारवचनमविरोधेन गमितं भवति, अत्राप्यादौ व्यवहारस्यान्ते च निश्चयस्याश्रयणादिति सर्वं सुस्थमिति। एवं तावदेकैकमधिकृत्य पृथक् संघातस्य परिशाटस्य चान्तरमुक्तं, इदानीं युगपदुभयस्यान्तरकालभावनामाह – 'उभयंतर' गाहा 'अणुभविडं' गाहा ( २६९-१०) व्याख्या - 25 उभयं-संघातपरिशाटलक्षणं तस्य जघन्यतः समयप्रमाणोऽन्तरकालो विज्ञेयः, कदाऽसौ लभ्यत इत्याह—‘“निव्विग्गहसंघाए "त्ति इयमत्र भावना - अविशिष्टः कश्चिदौदारिकशरीरी मृत्वाऽन्यत्र ऋजुण्या समुत्पद्य प्रथमसमये संघातं कृत्वा यदा द्वितीयसमये संघातपरिशाटलक्षणमुभयं करोति तदा

Loading...

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418