Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
________________
૩૯૩
परिशिष्टम् - १ सामायिकशब्दोच्चारणं निरुपयोगस्य सम्बन्धि गृह्यते, किं तर्हि गृह्यते ? इति चेदित्याह-'तच्छब्दविशिष्टः श्रुतभाव एवे 'ति (२८८-३), तस्य - सामायिकस्य अभिधायकत्वेन सम्बन्धी यः शब्दः - करेमि भंते ! सामायिकमित्यादिस्तेन विशिष्टो - युक्तः श्रुतभाव एवेति गृह्यते, त इदमुक्तं भवति - भावश्रुतेऽन्तर्जल्पाकारे केवले बहिः शब्दोच्चारणसहिते च श्रुतसामायिकस्यावतारो भवति । 'मनोवाग्योजनायां सत्यासत्यामृषाद्वये द्वयस्ये 'ति (२८८-६), अत्र किल श्रुतसामायिके 5 सम्यक्त्व सामायिकस्य चारित्रसामायिके तु देशविरतिसामायिकस्यान्तर्भावं चेतसि निश्चित्येत्थमाहद्वये–सत्यासत्यामृषामनोवाग्योगलक्षणे द्वयस्यापि - श्रुतचारित्रसामायिकलक्षणस्यावतारो भावनीय इति, अन्यथा हि यद्यन्तर्भावं नाभिप्रेयात् तदा सामायिकचतुष्ट्यस्यापि तत्रावतारं ब्रूयात्, न ह्युक्तं, मनोवाग्योगद्वयवतश्चत्वार्यपि सामायिकानि न सम्भवन्तीति । 'काययोजनायामपि द्वयस्याद्यस्य चे 'त्ति (२८८-७) द्वयस्य - श्रुतचारित्रसामायिकलक्षणस्य काययोजनायामवतारो वेदितव्यो, ननु 10 हस्तादिना भङ्गादिवर्त्तनात् तदवष्टम्भेन चान्तर्ज्जल्पस्य बहिः शब्दस्य च प्रवृत्तेर्भवतु श्रुतसामायिकस्य काययोगेऽवतारः, चारित्रं तु निश्चयतः सावद्ययोगनिवृत्तिरूपो जीवपरिणामो यदाह — " आया खलु सामाइय" मित्यादि, तत्कथं तस्य काययोगेऽवतार इत्याशङ्कयाह — 'आद्यस्य चे 'ति एतदुक्तं भवति—कायावष्टम्भेन यत्प्रवर्त्तते बाह्यप्रत्युपेक्षणादिक्रियारूपं व्यावहारिकचारित्रं तदपेक्षया द्वयस्यापि तत्रावतार उक्तो, नैश्चयिकं त्वात्मपरिणामरूपं चारित्रमपेक्ष्य यदि प्रेर्यते भवता तदाऽऽद्यस्यैव 15 श्रुतसामायिकस्य काययोजनायामवतारो भावनीय इति । 'उच्छुवणे सालिवणे इत्यादि गाथा (३०० - १३) – इक्षुक्षेत्रशालि क्षेत्रयोः समीपे पद्मिनीपटलमण्डितस्य सरसः समीपे कुसुमिते वा चम्पकवृक्षादिवनखण्डे गम्भीर :- पर्वतनितम्बादिषु नानाजातीयानेकप्रशस्तवृक्षनिकराकीर्णो गह्वरप्रदेश उच्यते, सानुनादस्तु यत्र शब्दे समुच्चरिते दिक्षु प्रतिशब्दः समुत्तिष्ठति गम्भीरच सानुनादश्चेति विगृह्यैकवद्भावाद्गम्भीरसानुनादं तस्मिन्नेवम्भूते प्रदेशे नद्यादिषु च यत्र दक्षिणावर्त्तेन जलमावर्त्तते 20 तत्समीपे जिनगृहे वा सामायिकं शिष्याय दीयत इत्यनन्तरवक्ष्यमाणगाथाक्रिया सर्वत्र सम्बध्यत इति गाथार्थः । ‘संझागयं रविगय मित्यादि ( ३०२ - ६) गाथाव्याख्या – सन्ध्यागतं - यत्सन्ध्यायामुदेति यथा— कार्त्तिकमासप्रथमदिनसन्ध्यायां कृत्तिका, मार्गशीर्षे वा मृगशिर इत्यादि, रविगतं - यंत्रादित्योऽवतिष्ठते, विड्डेरं नाम कृतवक्रग्रहाधिष्ठितं, सग्गहं - क्रूरग्रहाध्यासितं विलम्बितं - यदादित्येन भुक्त्वाऽनन्तरमेव त्यक्तं, राहुहयं (गतं) यत्र वेश्चन्द्रमसो वा ग्रहणमभूद्, ग्रहभिन्नं-नाम यद्भित्त्वा 25 भौमाद्यन्यतरो ग्रहो मध्येन विनिर्गतः, एतानि सप्त नक्षत्राणि सामायिकं प्रयच्छन् वर्जयेदिति गाथार्थः । 'अभिवाहारो कालियसुयस्से (सुअंमी) 'त्यादि गाथा (३०३ - २), – अत्राभिव्याहारो नाम शिष्याचार्ययोरुक्तिप्रत्युक्त्यादिना प्रकारेण सामायिकादिश्रुतस्योद्देशसमुद्देशादिविधिरुच्यते, स
Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418