Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 401
________________ ૩૯૨ મલધારી હેમચન્દ્રસૂરિકૃત ટીપ્પણક (ભાગ-૪) (२७६-९), तस्मिन्कृते द्रव्यमपि कृतमेव भवति, यदिवा किमनेन कष्टोत्तरेण, लौकिकादेवोपचा वारात्सिध्यति क्षेत्रस्य करणं, सम्भवन्ति ह्येवं वक्तारो लोका:-इक्षुक्षेत्रं शालिक्षेत्रं वा मया कृतमिति, एतद्दर्शयति—'उपचारमात्राद्वे'त्यादि (२७६-१०) । अथ यदा वर्तनास्वरूप: कालो विवक्ष्यते तदा वर्तनादीनां स्वयमेव भावान्मा भूत् कालस्य करणं यदा त्वर्द्धतृतीयद्वीपसमुद्रान्तर्वर्ती 5 समयादिरूपः कालो विवक्ष्यते तदा तस्य परकृतत्वात् करणत्वं भविष्यतीत्याह–'समयाद्यपेक्षायां चापरोपादानत्वादिति (२७७-७), न हि समयादिरूपस्यापि कालस्योपादानभूतः-कारणभूतः कश्चनापि परो विद्यते, तदा तस्य परकृतत्वात्करणत्वं भविष्यतीत्याह-तस्यापि स्वरससिद्धत्वात्कुत करणतेति भावार्थः । 'बवं च बालवं चे'त्यादि (२७८-२), इयमत्र भावना-कृष्णचतुर्दशीरात्रौ शकुनिर्नामावस्थितं करणं भवति, अमावास्यायामह्नि चतुष्पदं रात्रौ नागं शुक्लपक्षप्रतिपदि दिवा 10 किंस्तुघ्नं, एतानि चत्वार्यप्यवस्थितानि करणान्युच्यन्ते, एतास्वेव तिथिषु भवन्तीतिकृत्वा, तस्या एव शुक्लप्रतिपदो रात्रौ बवनाम करणं भवति इदं चानवस्थितम्, एतस्यामन्यासु च तिथिषु भावाद्, एवं शेषेष्वपि बालवादिष्वनवस्थितत्वमवसेयं, एवं शुक्लद्वितीयायां दिवा बालवं रात्रौ कौलवं तृतीयायां दिवा थीविलोयणं रात्रौ गरमित्येवमेकैकस्यां तिथौ क्रमेण करणद्वयं २ पुनरावृत्त्यापि तावज्ज्ञेयं यावत्कृष्णपक्षचतुर्दश्यां दिवा विष्टिस्ततस्तन्निशाया आरभ्य पुनरप्यवस्थितानि 15 तान्येव शकुन्यादीनि तावद्यावत् सितपक्षप्रतिपदि दिवा किंस्तुघ्नमित्यादि पुनस्तदेवावर्त्तते । 'पक्खतिहीओ दुगुणिया' इत्याद्यानयनोपायोऽप्यवस्थितकरणभोग्यतिथिभ्योऽन्यतिथ्रिषु द्रष्टव्यः, तास्ववस्थितकरणानामेव सिद्धत्वादिति । 'सत्तमिचाउद्दसी य अह विट्ठि'त्ति (२७९-७), कृष्णसप्तम्यां चतुर्दश्यां चाह्नि विष्टिर्भवतीत्यर्थः । 'इदमेवमिती'ति (२८१-११), इदं-श्रुतमेवं-बद्धाबद्धभेदभिन्नं लौकिकलोकोत्तरभेदं द्रष्टव्यं, लौकिकं बद्धाबद्धं लोकोत्तरं चेत्यर्थः । 'शास्त्रोपदेशव'दिति (२८१20 ११), शास्त्ररूपः उपदेशः शास्त्रोपदेशः-आचारादिः तद्वदिति । 'भूतापरिणते'त्यादि (२८२ ६), भूतापरिणतविगतशब्दैर्यथासङ्ख्यमुत्पादध्रौव्यव्यया उच्यन्ते तेषां यच्छब्दकरणं-भणनं प्रतिपादनमित्यर्थः तत्प्रकाशोपदिश्यमानत्वादनिषीथमिति भावार्थः । 'सट्टीएयरुज्झाय'त्ति (२८४ ६) सट्टीयरौ-मातृष्वसृजातौ भ्रातरौ उपाध्यायौ-पूर्वावस्थायामध्यापकब्राह्मणौ ततः कर्मधारय ___ इति। 'बत्तीसं अड्डीयाओ' इत्यादि (२८५-४), अड्डिकाप्रत्यड्डिकाश्च धनुर्धराणां स्थानविशेषा 25 लोकप्रतीताः, तत्प्रतीता: पाठविशेषा वा इत्यन्ये, करणानि-नर्त्तक्यादीनामालीढादीन्यपि धनुर्द्धरादीनामेव स्थानानि वैशिष्ट्याच्च कुतश्चित्पृथगुपात्तानि । 'भावश्रुतशब्दकरणेऽधिकारो भवति कर्त्तव्य' इति (२८८-१), भावश्रुतं च शब्दश्च तद्रूपकरणं भावश्रुतशब्दकरणं, तत्र भावश्रुतमन्तर्जल्पाकारं श्रुतोपयोगरूपं, शब्दकरणं तु नात्र करेमि भंते ! सामाइयं सव्वं सावज्जं जोगगित्यादि

Loading...

Page Navigation
1 ... 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418