Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala
View full book text
________________
परिशिष्टम् - १ . 3८७ निश्चयनयमतेनैवोत्तरमाह-'जहा विगच्छमाण'मित्यादि (२६६-२), यस्माद् विगच्छद्विगतं उत्पद्यमानं चोत्पन्नं तस्मात् परभवाद्यसमये सर्वमोक्षसर्वादानयोर्न कश्चिद्विरोधः, एतदुक्तं भवति–निश्चनयमते प्राग्भवायु:पुद्गला अपनीयमाना अपगता एव द्रष्टव्याः, तत्कथमागामिभवायु:पुद्गलैरूत्पन्नैः सहैकस्मिन् समये तेषामनुभूयमानता समस्ति येन विरोधः स्यादिति गाथार्थः । आचार्य एवाभ्युच्चयदूषणमाह'चुतिसमये'त्यादि (२६६-३), व्याख्या-च्युतिसमये इहभवायु:पुद्गलसर्वपरिशाटसमये तावदिहभवो 5 न भवत्ययं, कुतः?-इहभवसम्बन्धिदेहविमोक्षात् सर्वपरित्यागेन परित्यक्तत्वाद्, यथाऽतीतजन्मनीहभवो नास्त्यत्रत्यदेहाभावात् तथा च्युतिसमयेऽप्यसौ न भवत्येव, इहभवदेहाभावस्याविशेषाद्, एवं च सति यदि तस्मिँश्च्युतिसमये परभवोऽपि भवता नाभ्युपगम्यते तदाऽसौ संसारी जीवः को भवतु ?, इहभवत्वस्य तावद्युक्तित एव निषेधात् परभवत्वस्य तु त्वयाऽप्यनभ्युपगम्यमानत्वात् निर्व्यपदेश्य एवासौ स्यादिति गाथार्थः ॥ अत्राह पर:–णणु जह विग्गहकाले'इत्यादि (२६६-४), नन्विति 10 आक्षेपे, ननु यथा विग्रहकाले–वक्रेण परभवगमनकाले पारभविकदेहाभावेऽपि परभवसम्बन्धी जीवो व्यपदिश्यते तथा-तेनैव प्रकारेणेहभवसम्बन्धिनो देहस्याभावेऽपि भवेदिहभवोऽपि न कश्चिद्दोषः एतदुक्तं भवति-यथा वक्रगतौ परभवशरीराभावेऽपि परभवत्वेन व्यपदेशः तथेहभवशरीराभावेऽपि च्युतिसमये इहभवत्वेन व्यपदेशोऽभ्युपगन्तव्य एव, न्यायस्य समानत्वादिति गाथार्थः । आचार्य आह-नन्वेतद् ब्रुवता त्वया अस्मत्साहाय्यमेवानुष्ठितं स्याद्, यतो यथा 15 विग्रहकाले पारभविकशरीराभावेऽपि परभवव्यपदेशः तथा च्युतिसमयेऽपीहभवशरीरत्यागे सति परभवशरीराभावस्य तुल्यत्वाद्विग्रहकालवदेव परभवव्यपदेशः किं नाभ्युपगम्यत इति ?, एतदेवाह'जं चिय विग्गहकाले' इत्यादि (२६६-५) यत एव कारणाद्विग्रहकाले देहाभावेऽपिपरभवशरीराप्राप्तावपि परभवोऽसौ भवतोऽपि सम्मतः तत एव तर्हि च्युतिसमयेऽपीहभवसम्बन्धी परभवसम्बन्धी वा नास्ति देहोऽतो देहाभावस्य तुल्यत्वाद्विग्रहकालवत् च्युतिसमयेऽपि कस्मात् 20 परभवव्यपदेशो नाभ्युपेयते, 'न विग्गहो जइ'त्ति यदि पुनरेवं ब्रूयात्परो यदुत-असौ च्युतिसमयो न विग्रह: परभवव्यपदेशतु विग्रहकाल एव मयाऽभ्युपगम्यते, तत्रोच्यते-'स को होउत्ति यदि च्युतिसमयो विग्रहो न भवतीति नास्य परभवत्वं प्रतिपद्यते हन्त तर्हि संसारी जीवस्तदा को भवतु ?, इहभववपुषस्त्यक्तत्वात्परभवस्य च त्वयाऽप्यनभ्युपगम्यमानत्वात् तथैव-निर्व्यपदेश्य एव स्यादिति गाथार्थः । जघन्यसंघातान्तरभावनामाह-संघायंतरकालो' गाहा 'तेहूणं' गाहा (२६७- 25 १०), व्याख्या-एकदा संघातं कृत्वा पुनः शरीरान्तरे सङ्घातं कुर्वतो योऽसौ जघन्योऽन्तरकाल: स त्रिसमयहीनः क्षुल्लकभवमानोऽवसेयः, स च कदा लभ्यत इत्याह-परभवमविग्रहेण गत्वा प्रथमसमये संघातयतः-सर्वसंघातं कुर्वतो जीवस्य लभ्यत इति द्वितीयगाथायां सम्बन्धः, किं

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418