Book Title: Avashyak Niryukti Part 04
Author(s): Aryarakshitvijay
Publisher: Vijay Premsuri Sanskrit Pathshala

Previous | Next

Page 390
________________ परिशिष्टम् - १ * 3८१ लौकिकेनास्थित 'मिति (२१८-८), ननु यदिह संस्थानं तत् तत्रापि घनप्रदेशं सत् सिद्धानामनन्तरमेवोक्तं, तथाहि-जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघणं तं संठाणं तहिं तस्स ॥१॥ इति (गा० ९६९) कथं न विरोध ? इति, नैवं, अभिप्रायापरिज्ञानाद्, यथा ह्यमूर्त्तत्वेन नभसः स्वत आकाराभावेऽपि चतुरस्रगृहद्वाराद्यर्थावच्छिन्नस्य तस्यापि परोपाधितश्चतुरस्राद्याकारता कल्प्यते तथा सिद्धानामपि प्रागौदारिकशरीरपरिच्छिन्नजीवप्रदेशापेक्षया 5 परोपाधितः संस्थानमुच्यते न पुनस्तेषां स्वतः संस्थानमस्ति अमूर्त्तत्त्वात् संस्थानस्य च मूर्तवस्तुधर्मात्त्वादिति न कश्चिद्विरोध इति । 'सिद्धस्स सुहो रासी सद्यद्धापिंडिओ जइ हवेज्जा'इत्यादि (२२३-५) गाथायां साद्धाशब्देन सादिरपर्यवसितः सिद्धसम्बन्ध्येव कालो गृह्यते न सामान्यः सर्वोऽपि कालः, तद्ग्रहणे हि वक्ष्यमाणमनन्तैर्वर्गमूलैरपवर्तनमसङ्गतं स्याद्, यदि हि सर्वकालसमयराशिना गुणयित्वाऽपि पुनरपवर्तनीयो राशिः तर्हि तद्गुणनस्य किं फलं ?, 10 सिद्धसम्बन्धिकालग्रहणे तु साद्धापिण्डित इति किमुक्तं भवति ?-सर्वेणापि साद्यपर्यवसितेन कालेन यत्सुखं सिद्धः प्रतिसमयमनुभवति तद् यद्येकत्र संपिण्ड्यासत्कल्पनया राशिः क्रियत इति, स च राशिरनन्तवर्गापवर्तित इत्यनन्तैर्वर्गमूलैस्तावदपवर्त्तितो यावत् सद्धिालक्षणगुणकारेण यदधिकं जातमासीत् तस्य सर्वस्याप्यपवर्त्तनेन समीभूतः सिद्धत्वाद्यसमयमात्रभाविसुखरूपतां प्राप्त इत्यर्थः, एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दूरापास्त एवेति ज्ञापनार्थं च पिण्डयित्वा 15 पुनरपवर्त्तनं सुखराशेरिति, एतदेव भावयति—'इह किल विशिष्टे' त्यादि (२२४-२), एतदुक्तं भवति-सर्वस्यापि सुखशब्दयवाच्स्याह्लादरूपस्य सुखस्य सिद्धसुखमेव परमप्रकर्षप्राप्तं भवति, तच्च केवलिप्रज्ञया परिच्छिद्यमानं यावतोऽशान् प्रयच्छति तावतोऽशाः सर्वलोकालोकाकाशप्रदेशेभ्योऽप्यादिशब्दात् तत्पर्यायेभ्योऽपि भूयांस इत्यनया किल कल्पनाविवक्षयोक्तंसिद्धाण सुहो रासी सव्वागासे न माइज्जे'त्यादि, अन्यथा यद्येवं विवक्षामनपेक्ष्य मुख्यरूपतयैव 20 सिद्धसुखं साकाशे न मातीत्युच्येत तदा कथमिति सूरयोऽभिदधतीति सम्बन्धः, किं तदित्याहनियत देशे-क्रोशषड्भागलक्षणे तेषां सिद्धानां अवस्थितिरिति, अयमभिप्रायो–यद्युक्तकल्पनाव्यतिरेकेण मुख्यवृत्त्यैव सिद्धस्य सुखराशिः साकाशे न मातीत्युच्येत तदा धर्मिणमन्तरेण धर्मस्याभावात् सिद्धोऽपि सर्वाकाशे न मातीति वक्तुं युक्तं स्यात् तत्कथं पूर्वसूरयः क्रोशषड्भाग एव सिद्धावस्थानमभिदध्युः तस्माद्यथोक्तविवक्षयैव "सिद्धस्स सुहो रासी"त्यादि अभिहितमिति स्थितं, 25 न चैतन्मया स्वमनीषिकयोच्यत इति दर्शयति-तथा चैतदि'त्यादि (२२४-७), विद्यन्ते-ज्ञायन्ते जीवादय पदार्था अनेनेति व्युत्पत्त्या वेदशब्देनेह सिद्धान्तोऽभिधीयते, ततश्च गौतमादिमहर्षिप्रणीते सिद्धान्तेऽपि एतत्संवादि-मदीयव्याख्यानसंवादि स्थाने २ प्रोक्तमेवेत्युक्तं भवति येन च ग्रन्थेनोक्तं

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418