________________
परिशिष्टम् - १ * 3८१ लौकिकेनास्थित 'मिति (२१८-८), ननु यदिह संस्थानं तत् तत्रापि घनप्रदेशं सत् सिद्धानामनन्तरमेवोक्तं, तथाहि-जं संठाणं तु इहं भवं चयंतस्स चरमसमयंमि । आसी अ पएसघणं तं संठाणं तहिं तस्स ॥१॥ इति (गा० ९६९) कथं न विरोध ? इति, नैवं, अभिप्रायापरिज्ञानाद्, यथा ह्यमूर्त्तत्वेन नभसः स्वत आकाराभावेऽपि चतुरस्रगृहद्वाराद्यर्थावच्छिन्नस्य तस्यापि परोपाधितश्चतुरस्राद्याकारता कल्प्यते तथा सिद्धानामपि प्रागौदारिकशरीरपरिच्छिन्नजीवप्रदेशापेक्षया 5 परोपाधितः संस्थानमुच्यते न पुनस्तेषां स्वतः संस्थानमस्ति अमूर्त्तत्त्वात् संस्थानस्य च मूर्तवस्तुधर्मात्त्वादिति न कश्चिद्विरोध इति । 'सिद्धस्स सुहो रासी सद्यद्धापिंडिओ जइ हवेज्जा'इत्यादि (२२३-५) गाथायां साद्धाशब्देन सादिरपर्यवसितः सिद्धसम्बन्ध्येव कालो गृह्यते न सामान्यः सर्वोऽपि कालः, तद्ग्रहणे हि वक्ष्यमाणमनन्तैर्वर्गमूलैरपवर्तनमसङ्गतं स्याद्, यदि हि सर्वकालसमयराशिना गुणयित्वाऽपि पुनरपवर्तनीयो राशिः तर्हि तद्गुणनस्य किं फलं ?, 10 सिद्धसम्बन्धिकालग्रहणे तु साद्धापिण्डित इति किमुक्तं भवति ?-सर्वेणापि साद्यपर्यवसितेन कालेन यत्सुखं सिद्धः प्रतिसमयमनुभवति तद् यद्येकत्र संपिण्ड्यासत्कल्पनया राशिः क्रियत इति, स च राशिरनन्तवर्गापवर्तित इत्यनन्तैर्वर्गमूलैस्तावदपवर्त्तितो यावत् सद्धिालक्षणगुणकारेण यदधिकं जातमासीत् तस्य सर्वस्याप्यपवर्त्तनेन समीभूतः सिद्धत्वाद्यसमयमात्रभाविसुखरूपतां प्राप्त इत्यर्थः, एतावन्मात्रोऽपि सर्वाकाशे न माति सर्वस्तु दूरापास्त एवेति ज्ञापनार्थं च पिण्डयित्वा 15 पुनरपवर्त्तनं सुखराशेरिति, एतदेव भावयति—'इह किल विशिष्टे' त्यादि (२२४-२), एतदुक्तं भवति-सर्वस्यापि सुखशब्दयवाच्स्याह्लादरूपस्य सुखस्य सिद्धसुखमेव परमप्रकर्षप्राप्तं भवति, तच्च केवलिप्रज्ञया परिच्छिद्यमानं यावतोऽशान् प्रयच्छति तावतोऽशाः सर्वलोकालोकाकाशप्रदेशेभ्योऽप्यादिशब्दात् तत्पर्यायेभ्योऽपि भूयांस इत्यनया किल कल्पनाविवक्षयोक्तंसिद्धाण सुहो रासी सव्वागासे न माइज्जे'त्यादि, अन्यथा यद्येवं विवक्षामनपेक्ष्य मुख्यरूपतयैव 20 सिद्धसुखं साकाशे न मातीत्युच्येत तदा कथमिति सूरयोऽभिदधतीति सम्बन्धः, किं तदित्याहनियत देशे-क्रोशषड्भागलक्षणे तेषां सिद्धानां अवस्थितिरिति, अयमभिप्रायो–यद्युक्तकल्पनाव्यतिरेकेण मुख्यवृत्त्यैव सिद्धस्य सुखराशिः साकाशे न मातीत्युच्येत तदा धर्मिणमन्तरेण धर्मस्याभावात् सिद्धोऽपि सर्वाकाशे न मातीति वक्तुं युक्तं स्यात् तत्कथं पूर्वसूरयः क्रोशषड्भाग एव सिद्धावस्थानमभिदध्युः तस्माद्यथोक्तविवक्षयैव "सिद्धस्स सुहो रासी"त्यादि अभिहितमिति स्थितं, 25 न चैतन्मया स्वमनीषिकयोच्यत इति दर्शयति-तथा चैतदि'त्यादि (२२४-७), विद्यन्ते-ज्ञायन्ते जीवादय पदार्था अनेनेति व्युत्पत्त्या वेदशब्देनेह सिद्धान्तोऽभिधीयते, ततश्च गौतमादिमहर्षिप्रणीते सिद्धान्तेऽपि एतत्संवादि-मदीयव्याख्यानसंवादि स्थाने २ प्रोक्तमेवेत्युक्तं भवति येन च ग्रन्थेनोक्तं